पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० आर्षेयब्राह्मणम्

एतन्नामधेयकम् । ईडेत्यस्य वा निधनम् । तथा च ब्राह्मणम् – प्रतीचीनेडं काशीतं भवति । पराचीमिर्वा अन्याभिरिडाभी रेतो दधतेत्यथैतत् प्रतीचीनेडं काशीतम् । (ता. ब्रा. १५. ५. १६) इति ॥ १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषर्येब्राह्मणे द्वितीयाध्याये सप्तमः खण्डः ॥ ७ ॥