तृतीयोऽध्यायः
प्रथमः खण्डः
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।
पुमांश्चतुरो दयाद्विद्यातीर्थमहेश्वरः ।।
भरद्वाजस्याओं द्वौ । इन्द्रस्य वा ॥ ३.१.१॥
अभि त्वा शूर नोनुमः (सा. २३३) इत्यत्र सामद्वयमुत्पन्नम् । अभित्वाशू (ग्राम. ६.१. २३३. १) इति मन्द्रादिकम् । अभित्वा ३ शुर- नोनुमाः (ग्राम. ६. १. २३३.२) इति मन्द्रद्वितीयादिकम् । एते द्वे भरद्वाजस्यानामधेये । विशेप्यस्यार्कशब्दस्य लिङ्गत्वात् द्वावितिपद तल्लिङ्गमिति न विरोधः । अथवा इन्द्रस्याओं ॥ १ ॥
भारद्वाजे द्वे ॥३.१.२॥
स्वामिद्धि हवामहे (सा. २३४) इत्यत्र सामद्वयोत्पत्तिः । त्वामिद्धी (ग्राम. ६. १. २३४.१) इति मन्द्रादिकम् । त्वामिद्वियामहे (ग्राम. ६. १. २३४. २) इति चतुर्थमन्द्रादिकम् । एते द्वे भारद्वाजे ॥ २ ॥
सान्नते द्वे श्यैतं तृतीयम् ॥ ३.१.३ ॥
अभि प्र वः सुराधसम् (सा. २३५) इत्यत्र सामत्रयोत्पत्तिः । अभि प्रवाः (ग्राम. ६. १. २३१.१) इति मन्द्रादिकम् । अमाइप्रवाः (ग्राम. ६. १. २३५.२) इति क्रुष्टद्वितीयादिकम् । एते द्वे सानते एतन्नाम- धेये । अभिप्रवस्सुरा (ग्राम. ६. १. २३५. ३) इति चतुर्थतृतीयादिकम् । एतत् तृर्त यं साम श्यैतनामधेयम् ।। ३ ।।
नाविकं च प्रजापतेश्चाभीवर्तोऽभीवर्तस्य वाङ्गिरसस्य भागं चेन्द्रस्य चाभीवर्तो नौधसं पञ्चमम् ॥ ३.१.४ ॥