पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमुदशताल पुरुषमानविधिः] उत्तरार्थे एकचत्वारिंशः पटलः । एकतालान्तकं विद्याद् देहलब्धाङ्गुलं पृथक् । इन्दुः खमंशो मात्रं चाप्यङ्गुलं च समं स्मृतम् ॥ १४ ॥ कोलकं च कलाभागः स्याद् द्वित्रिचतुरङ्गुलम् । अक्षिगोलकपक्षस्तु द्व्यङ्गुलस्याभिधायकः ।। ५५ ।। मुखं तालं वितस्तिश्च द्वादशाङ्गुलवाचकम् । संज्ञापर्यायाः । अथ श्रेष्ठात् कितालात् प्रतिमामानमुच्यते ॥ ५६ ॥ सौंशत्रियव उष्णीषः केशान्तोंऽशैस्ततस्त्रिभिः । ततोऽक्षिसूत्रं वेदारौः सयवत्रितयैस्ततः ॥ ५७ ॥ नासापुटान्तं तन्मानं चिबुकान्तं च तावता |. तस्माद् गलं वेदयवं ततः कण्ठस्तु सप्तभिः ॥ ५८ ॥ यवैरग्न्यङ्गुलैश्चास्माहृदयं त्रियवान्वितैः । त्रयोदशाङ्गुलैस्तस्मान्नाभिस्तावद्भिरङ्गुलैः ॥ ५९ || नाभेर्मेहूं च तावद्भिस्ततो नक्षत्रसंमितैः । अङ्गुलैरूरुमानं स्यात् तस्माद् भागेन जानुनी || ६० ॥ तस्मादूरुसमे जङ्घे पादमानं तु भागतः । अथाङ्गुष्ठात् तु पार्ण्यन्तं तलं सप्तदशाङ्गुलम् || ६१ || हिक्कासूत्रादधो बाहू सप्तविंशतिमात्रकैः । द्व्यङ्गुलं कोर्परं तस्मात् त्रिसप्तांशैः प्रकोष्ठकम् || ६२ ।। सार्धत्रयोदशैर्मात्रैर्मध्याग्रान्तं तलं स्मृतम् । मुखस्य तिर्यग्विस्तारः कर्णान्तो द्वादशाङ्गुलः ॥ ६३ ॥ श्रीवामूलाग्रविस्तारः सार्धनन्द नवाझुलैः । एकाशीतरर्धमात्रैः संबाह्वन्तरविस्तृतिः ॥ ६४ ॥ सार्धनन्दैर्बाहुमूलजान्वोर्व्यासं तु कल्पयेत् । कक्षयोरन्तरव्यासो द्वाविंशत्यङ्गुलैर्मतः ॥ ६५ ॥ स स्तनान्तरविस्तारः सार्धविंशतिमात्रतः । हृदयावधिविस्तारः सार्धाष्टादशमात्रिकः ।। ६६ ।। ३९७