पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ ईशानशिवगुरुदेवपद्धतो मध्यव्यासः षोडशांशैः साधैरष्टादशाङ्गुलैः श्रोणेर्व्यासः कटिव्यासो विंशत्यङ्गुलसंमितः ॥ ६७ ।। सार्ध त्रयोदशांशा स्यादूरुमूलस्य विस्तृतिः | मान्वंशैरूरुमध्यस्य जङ्घा मूलेऽष्टमात्रकैः ॥ ६८ ॥ जङ्घामध्यं सार्धषट्कं नलका सार्धभागतः । विस्तृताथाक्षिगुल्फान्तं स यवेण्वंशविस्तृतम् ॥ ६९ ॥ सार्धवेदाङ्गुलैः पार्णी विस्तृता तद्वदुच्छ्रिता | षडंश: प्रपदव्यासस्तलाग्रस्य सषड्यवः ॥ ७० ॥ सयबद्वयवेदांशैः पादाङ्गुष्ठायतं स्मृतम् । तद्विस्तारं तदर्धेन तदर्थान्न खविस्तृतिः ॥ ७९ ॥ तत्पादोनो नखायामो वृत्तोदप्राग्रमण्डितः । वेदरामाग्मिहङ्मात्रैः सत्रिषट्कचतुर्यवैः ॥ ७२ ॥ तर्जन्यादिकनिष्ठान्तमङ्गुल्यायाम ईरितः। तच्यासोऽपि क्रमाज्ज्ञेयो नवभिः सार्धसतकैः ।। ७३ ।। [क्रियापद . सप्तभिश्च यवैः षड्भिः स्वव्यासार्धात् तता नखाः । सपादाष्टांशसेप्तांशैर्दोर्मध्ये कोर्परे ततिः ॥ ७४ ॥ सार्धेषुसार्धरामांशैः प्रकोष्ठमणिबन्धयोः तलं सप्ताङ्गुलायामं मध्या सार्धषडङ्गुला ।। ७५ ॥ ++++++ तर्ज़ा ज्येष्ठा वेदाङ्गुलार्यता । सपादेष्वङ्गुलानामा कनिष्ठाब्ध्यंशपादयुक् ॥ ७६ ॥ सपादांशांशसयवमात्रमात्रैश्च षड्यवैः । अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीनां ततिर्भवेत् ॥ ७७ ॥ स्वस्वमूले विकारांशे हाप्योंऽशस्तत्तदग्रके । अङ्गुल्यग्रततेऽग्न्यंशे व्यंशव्यासा नखाः पृथक् ॥ ७८ ॥ स्वस्वव्यासचतुर्थाशाह्मयताः स्युर्नखाः पृथक् । द्विगुणं स्वनखायामादग्रपर्व पृथक् पृथक् ॥ ७९ ॥ सपादयंशतोऽक्रुष्ठे तर्जानाम्नोईगंशतः । mrenent mmili