पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतालपुरुषमानविधि:] उत्तरार्धे एकोनचत्वारिंशः पटलः । कनिष्ठायाश्च कथित आयामो मूलपर्वणः । मध्यपर्व च यच्छिष्टं मध्ये मूलाग्रपर्वणोः ।। ८१ ॥ सर्वमङ्गुष्ठं शेषाः पर्वत्रयान्विताः । सार्धर्तुरससार्धेषुमात्रव्यासस्तलस्य तु ॥ ८२ ॥ मूले मध्ये तथाग्रे स्यादथाङ्गुष्ठस्य मूलतः । आ तर्जामूलतोऽग्न्यशैस्तथाङ्गष्ठस्य मूलतः ॥ २३ ॥ शुकोदराख्यो वेदांशैर्मणिवन्धान्तमायतः । तदनं सार्धयुग्मांश करपार्ष्या घनं कला || ८४ ॥ तद्ग्रं षोडशांशोनमथाग्रं यत् तलस्य तु । मांसलं सार्धकोलं स्यात् पाण्णिरत्रांश विस्तृतः ॥ ८५ ॥ शुकोदरततिशाच्छेषान्निम्नं तले स्मृतम् । चक्रशङ्खाब्जमकरस्वस्तिकाद्यङ्गवत् तलम् || ८६ || कर्णोर्ध्वे स्याच्छिरोनाहः स चाष्टात्रिंशदङ्गुलैः । कर्णयोर्मध्यनाहः प्राग् द्वाविंशत्यङ्गुलैः स्मृतः ॥ ८७ ॥ तत्पृष्ठनाहः सूर्योशैः कर्णौ कोलकतः पृथक् । मूर्ध्ना मध्यात् तु केशान्तमानमुक्तं नवाङ्गुलम् ॥ ८८ ॥ पार्श्वयोस्तावदेव स्यादथ केशाक्षिसूत्रयोः । मध्ये तु भ्रूयुगं कुर्यात् सज्यचापानतं शुभम् ॥ ८९ ।। कर्णोर्ध्वसूत्रं भ्रूतुल्यं ततो मात्राद् भ्रुवोर्नतिः(१) । भ्रुवोरन्तरमशाच्छरांशैरायतं वोः ॥ ९० ॥ भ्रूमध्यतारं द्वियवं कृशमग्रं तयोः क्रमात् । कनीनिका कलायामव्यासा स्यादथ षड्यवः ।। ९१ ।। सितांशः कृष्णबिम्बश्च शुक्लांशोऽन्ते च तत्समः । षड्यवो नेत्रविस्तारो नेत्रान्तोऽर्धयवोऽरुणः ।। ९२ ॥ + कृष्णदृष्टिर्यूकसमा ज्योतिर्मण्डलकं यवम् । ऊर्ध्वाधोवर्मविस्तारो यवं चार्धयवं भवेत् || ९३ || २. 'प्र' क. पाठः. १. 'शा',