पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.रातालपुरुषमानविधिः ] उत्तरार्धे एकचत्वारिंशः पटलः । षड्यवं नालरन्धं स्यात् पिप्पल्यंशायत स्मृता । तदर्धविस्तृता वाथ पिञ्चूषी स्यात् कलायता ॥ १०७ ।। तद्ध्यासोंऽशादक्षिसूत्रादधरिछद्रं चतुर्यवम् । चतुर्यवायता कर्णपाली सार्धयवाद् घना || १०८ ।। सार्धमात्रं ततः पृष्ठकर्णपृष्ठविधुस्तथा । पश्चात् कण्ठोर्ध्वकेशान्तेऽर्धी शनिम्ना कृकाटिका ॥ १०९ ॥ कृकाटिकाप्रदेशे तु कण्ठव्यासोऽष्टमात्रतः । साष्टार्धमात्रं तदधः स्कन्धसििन दशाङ्गुलैः || ११० ॥ पश्चात् कण्ठस्य चायामो वेदांशैश्च त्रिभिर्यवैः (1 हिक्का सूत्रोर्ध्वतः स्कन्धसन्धिर्वेदांशमुन्नतः ॥ १११ ॥ आ हिक्कासूत्रतो नीचौ (न) स्कन्धौ सप्तांशतो घनौ । पत्कण्ठादघोंशेन ककुत् तस्मादधोङ्गुलै: ॥ ११२ ॥ सप्तविंशतिभिः पृष्ठवंशस्त्वरकटिसन्धितः । ककुद्देशादधो हित्वा वेदांशात् कक्षयोः स्थितिः ॥ ११३ ॥ पृष्ठे तु कक्षयोर्मध्यव्यास: स्यात् तारकाङ्गुलैः । साङ्गुलयवै: कक्षादूर्ध्वं बाह्वोः समुच्छ्रयः ।। ११४ ॥ स्कन्धसन्धेरंसपीठं सार्धबाणांशकैर्मवेत् । पश्चादास्त नसूत्रान्तमकशे फैलकेंऽसयोः ॥ ११५ ॥ ककुदो ऽघोंऽसफलकामध्यव्यासो दशाङ्गुलः । तदधस्त्र्यङ्गुलो व्यासो वंशो व्यङ्गुलनिम्नवान् ॥ ११६ ॥ वंशपार्श्वादांसपीठं बृहती सप्तमातृके । बृहत्योरास्तनं मध्ये घनं षोडशमात्रकैः ॥ ११७ ॥ अधो बृहत्याः कट्यन्तमायामः सप्तमातृकः | विकारांशैर्घनं तस्मादधश्चात्यष्टिमात्रकैः ॥ १२८॥ सार्ध त्रयोदशांशैः स्यात् कट्यास्तत्खण्डकान्तरम् । अर्धोनकृतिमात्रा स्यात् कटिबन्धस्य विस्तृतिः ॥ ११९ ॥ १. 'ष्ठ', २. 'ष' क. पाठ:. ४०१