पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ ईशान शिव गुरुदेव पौ सार्धनन्दांशविस्तारौ स्फिजोः पिण्डौ सुवर्तुलौ । सार्घवेदांशतश्चोरुमूलात् स्पिक्पिण्डनिर्गतिः || १२० ॥ स्फिक्पिण्डौ मेदसूत्राघः सार्धवेदांशलम्बनौ । वृत्ता ग्रीवाथ तन्नाहे युग्मरेखा समन्विता ॥ १२१ ॥ स्तनमन्तरयोर्हिक्काकक्षसन्धिस्ततोऽपि च । सार्धंत्रयोदशांशैः : स्युः कक्षात् कक्षधरा ततिः ॥ १२२ ॥ सपादांशद्वयं सार्धमात्रं हृदयनिम्नतः । स्तनपीठोन्नतिर्व्यशात् सयवं कुचवर्तुलम् || १२३ || द्वियवोच्चततं चारुवर्तुलं स्तनचूचुक्म् । हिक्का द्वियवनीचा स्याज्जानुयुग्मं द्विमात्रकम् || १२४ ॥ षड्यवव्यासनिम्ना स्याद् रम्या नाभि: प्रदक्षिणा । नाभे : सयववाणांशा श्रोणी पार्श्वे रसांशका || १२५ ॥ सार्धत्र्यंशा कटिः श्रोण्या तच्छेषो मेदूमण्डलम् । सयवद्वयवाणांशदीर्घ सयववृत्ततः ॥ १२६ ॥ लिङ्गं बीजावलम्बस्तु सवेदांशयवद्वयः । तद्भ्यासस्तावतैव स्यान्मेढादूर्ध्वोरुबन्धनम् ॥ १२७ ॥ त्र्यंङ्गुलं त्रियवोत्तुङ्गं जानुवृत्तं तु भागतः । तद्धनं सार्धकलया पार्श्वबन्धस्तु भागतः || १२८ || जानुपश्चिमभागोच्चं सार्वग्रंशं तु भागतः । विस्तृतं तूचनिम्नाद्यमन्यदूह्यमतः परम् ॥ १२९ ॥ सर्वतः परिपूर्णाङ्गं मानोन्मानादितः समम् । श्रेष्ठेन दशतालेन बेरं कुर्वीत सुन्दरम् ॥ १३० ॥ इत्थं दशतालेन तु मुख्ये यथा लक्षणम् । उक्त खलु बेरोचितपुम्मानमशेषादिहं ॥ १३१ ॥ इति श्रीमदीशानशिवगुरुंदवपद्धतौ सिद्धान्तसारे क्रियापादे उत्तमदशतालपुरुषमानविधिपटलं एकचत्वारिंशः | [कितापाद: