पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे द्विश्चत्वारिंशः पटलः । अथ द्विचत्वारिंशः पटलः । मध्येन दशतालेन स्त्रीमानं कथ्यतेऽधुना | भागः कचान्त उष्णीषात् तस्माद् भागः सपच्यवः ॥ १ ॥ नेत्रान्तः स्यात् ततो नासापुटान्तः सचतुर्यवः | भागः स्यादथ हन्वन्तं रामांशैस्तु सषड्यर्वैः || २ ॥ हनोर्भागस्तु (!) कण्ठान्तस्ततो हृन्नाभियोनयः । पृथक् त्रयोदशांशैः स्युरूरू षड्विंशदङ्गुलैः || ३ || भागेन जानुस्तस्माच जङ्घे षडविंशदडलैः । भागेन पादौ च तलौ भागायामौ प्रकल्पयेत् ॥ ४ ॥ अङ्गुष्ठतर्जनी चोभे भागायामे पृथक् स्मृते । क्रमादर्घाकानाः स्युः शेषास्त्वङ्गुलयः पृथक् ॥ ५ ॥ भष्ठो व्यङ्गुलव्यासस्तजैकाङ्गुलविस्तृता । सार्थसप्तयवा मध्यानामा सप्तयवैस्ततः ॥ ६ ॥ कनिष्ठा षढयवव्यासा स्वव्यासार्धतता नखाः | उदश्चिताप्राः किञ्चित् ते पाणिव्यासस्तु भागतः ॥ ७ ॥ तावदुच्चो भवेत् पाष्णिस्तळव्यासः शराङ्गुलैः । रसातला स्यादक्षगुल्फौ शराङ्गुलैः ॥ ८ ॥ नलका भागविस्तारा जङ्घाव्यासो रसाङ्गुलैः । जानुव्यासः सप्तमात्रैरूर्वोर्व्यासस्तु तालतः ॥ ९ ॥ कटिर्द्विताल विस्तारा सप्तां शैर्जघनोर्ध्वतः । चतुर्मात्रैर धोव्यासस्तच्चाश्वत्थदलाकृति ॥ १० ॥ पीवरं तद् भवेश्वारु श्रोणी कृत्यङ्गुलैस्तता । षडयवव्यासनिम्ना स्यान्नाभिर्मध्येऽन्ततस्तनुः ॥ ११ ॥ रुद्रमात्रैस्तु विस्तीर्णरोगराज्या च शोभिता । स्तनाधोऽतिजगत्यंशैर्नन्दांशैः स्यात् प्रतिस्तनम् ॥ १२ ॥ रामांशैश्चूचुकव्यासः सार्धभागोन्नतौ स्तनौ । स्तनाक्षमर्धमात्रं स्याद् द्वियवः स्यात् तदुन्नतिः ॥ १३ ॥ मध्यमदक्षतालस्त्रीमानम्] vo}