४०४ इंशान शिवगुरुदेवपद्धतौ कक्षयोरन्तरव्यासो भवेत् सप्तदशाङ्गुलैः । सबाहुसीमा विस्तारः स्यादेक त्रिंशदङ्गुलैः ।। १४ ।। उत्कृत्यंशैर्भुजायामः कोर्परः स्यात् कलासमः । धृत्यंशैस्तु प्रकोष्ठं स्यात् तलं सप्ताङ्गुलायतम् ॥ १५ ॥ वेदेष्वृतुशराम्नायै रायताङ्गुलयः क्रमात् । नन्दर्षिवस्वृषिरसय वैरङ्गुलयस्तताः ॥ १६ ॥ स्वामव्यासे षडंशे तु वेदांशैर्नखविस्तृतिः । यवाधिको नखायामस्तलव्यासो रसाङ्गुलैः ॥ १७ ॥ रामेषुषट्सप्तमात्रैर्मणिबन्धश्च कोर्परः । बाहुमध्यं च मूलं च विस्तीर्णं स्यात् क्रमेण तु ॥ १८ ॥ ग्रीवा सप्ताङ्गुलव्यासा रुद्रांशैर्मुखविस्तृतिः । वृत्तायतं भवेद् वक्रं सार्धीशकलया भ्रुवोः ॥ १९ ॥ केशान्तात् संस्थितिर्वैर्ध्य तयोः सद्वियवा कला | सयवांशात् पुटादास्यं गोजिदैर्ध्य तदर्धतः ॥ २० ॥ ओष्ठपाली यवतता तच्छेषेणौष्ठविस्तृतिः । भागेन स्यात् तदायामस्त्रिवर्गोत्तरपालिका |॥ २१ ॥ तावदास्यायतं प्रोक्तमघरः सयवागुलः । तत्पाली यवविस्तीर्णा सयवद्वयभागतः ॥ २२ ॥ तदैर्ध्य पढ्यवस्तुङ्गं तस्मात् सार्धंशतो हनुः । चिबुकं द्वियवं तत्र कण्ठवेशस्ततो हनोः ॥ २३ ॥ सार्धत्रिमात्रैः कथितः कर्णव्यासः कलास्यं तु | दैर्ध्य सद्वियवाब्ध्यंशैर्नाललम्बः शरांशकैः ॥ २४ । तच्च साभरणं कुर्याद् भुजौ गोवालसुन्दरौ । ऊरू करिकराकारौ स्याद् वपुः सर्वसुन्दरम् ॥ १५ ॥ अनुक्तं पूर्ववच्छीर्ष सर्वमूह्यं विपश्चिता । मध्यमदशतालस्त्रीमानम् । मध्येन दशतालेन मानं पुंसोऽथ कथ्यते ॥ २६ ॥ [क्रियापाद:
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति