पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यमशतालपुरुषमानम् ] उत्तरार्धे द्विचत्वारिंशः पटलः । समवद्वयभागेन शिरः कण्ठाङ्घ्रिजानुषु । स्याद् [च्चमथ केशान्तान्नेत्रान्तं च पुटान्तकम् ॥ २७ ॥ इन्वन्तं प्रोक्तमानेन स्यात् कण्ठेऽर्धाङ्गुलं गलम् । हिक्काया (?) हृदयान्तं स्याज्जगत्यंशैः सषड्यवैः ॥ २८ ॥ तस्मान्नाभिस्ततो मेहूं सानुलैदशाङ्गुलैः । सषड्यवाभिकृत्यशैरूर्वोर्दैर्ध्यमुदाहृतम् ॥ २९ ॥ जङ्घादैर्घ्यं च तत्तुल्यमत्यष्टयंशैस्तलायतिः । उत्कृत्यशैर्बाहुदैर्घ्यं कलायामस्तु कोर्परः ॥ ३० ॥ विंशत्यंशैः प्रकोष्ठः स्यादामध्यामं तलायतिः । त्रयोदशाङ्गुलैश्चाथ सबाह्वन्तरविस्तृतिः ॥ ३१ ॥ सनन्दत्रिंशदंशैः स्यात् सार्धरुद्राकुलैर्मुखम् । मूलानि कण्ठबाहूनां जानुमध्यद्वयं त्वधः ॥ ३२ ॥ हिवासूत्राच्च कक्षान्तं प्रत्येकं नवमात्रकम् । कक्षाघरस्तु कलया प्रकृत्यैशरुरस्ततिः ॥ ३३ ॥ स्तनान्तरं स्तनाद्धिका हिक्काकक्षान्तरेऽङ्गुलैः । त्रयोदशैः कुक्षिमध्यं सार्धपञ्चदशाङ्गुलैः ॥ ३४ ॥ तस्मात् कलाधिकव्यासा श्रोणित: स्यात् कलाधिका | कटिव्यासस्तथैवीर्वोर्मूलेंऽशैस्तु त्रयोदशैः ॥ ३५ ॥ तयोर्मध्ये च रुंद्रांशैः सप्तांशैजङ्घयोस्ततिः । अत्यंशैर्नलकाव्यासः सपादैस्तु शराङ्गुलैः ॥ ३६ ॥ अक्षगुल्फद्वयव्यासः पाणिव्यासोच्चता ततः । सयवद्वयवेदांशैः संपादेष्वनुलैस्ततः ॥ ३७ ॥ पदमध्यं पदामं च ततं सार्धरसाङ्गुलैः । सपादवेदांशोऽङ्गुष्ठस्तर्जन्यस्माद् यवाधिकां ॥ ३८ ॥ सार्ध त्र्यंशायता भध्या त्र्यंशदीर्घा त्वनामिका | सार्धांशा कनिष्ठा च विस्तारेऽपि यथाक्रमम् ॥ ३९ ॥ कलया सयवांशेन मात्रात् सप्तय वैरपि । षड्यवैश्च नखव्यासा वस्विषुश्रुतिसंमितैः ॥ ४० ॥