पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ ईशानशिवगुरुदेवपद्धतौ यवैः सार्धामिरामैः स्यात् स्वव्यासार्धात् तदायतिः । अथ वस्वृषिसार्धेषुसार्धरामाङ्गुलैः क्रमात् ॥ ११ ॥ बाहुकोपरयोर्व्यासः प्रकोष्ठमणिबन्धयोः । मणिबन्धात् तलायामः सप्तांशैः स्यात् षडङ्गुलैः ॥ ४२ ॥ मध्यायास्तु सपादेषुमात्रे दाशन्यनामिके। कनिष्ठाङ्गुष्ठयाद सपाश्चतुरङ्गुलैः ॥ ४३ ॥ सायंशैस्तव्यासः सार्धव्यंशघनं तलम् । अङ्गुष्ठायङ्गुलीनां तु स्यात् सूर्यवसुनन्दकैः ॥ ४४ ॥ यवैर्वसुर सैस्तासां विस्तारः क्रमशो मतः । स्वाप्रव्यासे तु रामांशे धंशा स्यान्नखविस्तृतिः ॥ ४५ ॥ स्वस्वव्यासान्नखायामः प्रशस्तो द्वियवाधिकः । शिश्नायामः शरांशः स्यात् तद्व्यासो द्वचङ्गुलः स्मृतः ॥ ४६ ॥ मुष्कव्यासोच्छ्यौ भागौ भालं नन्दांशमायतम् । पश्चात् कर्णान्तरायामो भवेन्मात्रैस्त्रयोदशैः ॥ ४७ ॥ नेत्रायामान्तर यामी सेपादांशद्वयेन हिं । षड्या नेत्रविस्तारस्तावत् स्यात् कृष्णमण्डलः ॥ ४८ ॥ तत्पार्श्वमण्डले श्वेते स्यातां पञ्चयवायते । यवप्रमाणं ज्योतिः स्यात् कृष्णमण्डलमध्यगम् ॥ ४९ ॥ 'यूकामात्रा तु दृष्टिः स्याद् यवमाना कनीनिका | अपाङ्गेऽर्धयवे रक्ते द्वियवेनोर्ध्ववर्म यत् ॥ ५० ॥ अधोवर्मार्धयवतो भ्रूमध्यं नेत्रसूत्रतः । सपादकलया कार्य तावान् कर्णोच्छ्रयो भवेत् ॥ ५१ ॥ शराढलं भ्रुवोदैर्ध्य तन्मध्यं द्वियवात् ततम् । तदन्तरं स्यादर्षांशात् तयोरानतिरंङ्गुलात् ॥ ५२ ॥ [क्रियापाद: भुवी चापाकृता दीर्घे कर्णौ द्वियवभागतः । नाळालम्बोऽपि तावान् स्यात् साधिकांशः सभूषणः ॥ ५३ ॥ 'ल' क पाठः,