पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ ईशानशिवगुरुदेवपद्धतौ

द्वौ वाजनं चाब्जमेकमंशाभ्यामूर्ध्वपट्टिकम् चारुबन्धमधिष्ठानमिदं सङ्कृतिभेदितम् ॥ ९ ॥ चारुबन्धम् | प्राग्वच्छरांशैर्जगती त्वेकेनाब्जं भृगेकतः । ऊर्ध्वपद्मं च वेदांशैः शेषं प्रागिव पुष्कलम् ॥ १० ॥ पुष्कलम् । अत्र 'जगतीकुमुदं समानं, सार्धेनालिङ्गं समानमन्तरितं त्र्यंशं प्रभ्यु - त्तमांशं पद्मं वाजनमेतत् प्रतिक्रमाख्यं देवद्विजनरेन्द्राणां प्रशस्तम् । अन्ये - घामप्रशस्तम् । अथ मुखं ककरीभूतमकरास्यं व्यालमृगेभालिमण्डितं सर्वेषा- मप्रशस्तमेवे'ति पराशरः । ककरीभूतमकरं मृगव्यालगजाननम् । कुर्यात् समतलं व्यापिक्रियं तत् प्रतिबन्धकम् ॥ ११ ॥ प्रतिबन्धम् । तदेव नागबन्धं स्यान्नागवॠनिबन्धनम् । तदेव जगती स्थाने वस्वंशे बृहदम्बुजम् ॥ १२ ॥ कण्ठोंऽशे नाम्बुजं चांशाच्छरांशैः कुमुदं भवेत् । ऊर्ध्वपद्ममथैकांशादालिङ्गान्तरितं त्रिभिः || १३ || प्रत्युन्नतं समानं स्याच्छेषं वाजनमेव हि । श्रीबन्धारूयमिदं प्रोक्तं देवद्विजनृपोचितम् ॥ १४ ॥ श्रीबन्धम् । एकोनत्रिंशदंशेऽस्मिन्नधिष्ठानोदये भवेत् । तदेव पद्मं कुमुदं प्राग्वत् कम्पं च वाजनम् ॥ १५ ॥ ऊर्ध्वाब्जमंशादध्यर्षात् कपोतं चांशतोऽशतः । आलिङ्गान्तरितं ग्रंशं प्रत्युन्नतमथांशतः ॥ १६ ॥ सार्धेन वाजनं चेति प्रोक्तं कापोतबन्धनम् । द्विचतुर्यवपादार्घत्रिपादांशविवर्धनात् ॥ १७ ॥ १. 'कम्' २. 'यं न प्र' ग. पाट:.