पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे द्विचत्वारिंशः पटलः । पूर्वनालततिर्मात्रात् पश्चान्नालं तदर्धतः । तयोर्धनं त्वर्धमात्रात् कर्णमूलमपाङ्गतः ॥ ५४ ॥ कनिष्ठदशताल स्त्रीमानम् ] "1 सप्ताङ्गुलं भवेद् गोजीमूलान्नासाम तुझता | यवनकलया कार्या षड्यवः पुष्करोच्छ्रयः ॥ ५५ ॥ तद्विस्तारो यवोनः स्यादूर्ध्वनासाङ्गविस्तृता । पुटावर्षाङ्गुलसमौ स्यातां यवघनौ च तौ ॥ ५६ ।। गोज्यायामोऽर्धमात्रं स्यात् तद्यासो द्वियवः स्मृतः । उत्तरोष्ठततिस्त्वर्धमात्रात् पाळिततिर्यवात् ॥ ५७ ॥ तदैर्घ्यं सयवाद् भागात् सयवांशाधरे ततिः । तद्वैये द्विगुणं तस्मात् तत्पाली यवसंमिता ॥ ५८ ॥ तदुच्चं षढ्यवं शेषो हनुश्च स्याद्धनोर्गलः । सांध्ययवमात्रः : स्यात् ततः सार्धद्विमात्रतः ॥ ५९ ॥ कण्ठवेशो भवेच्छेषं प्राग्वदूह्यं विचक्षणैः । मध्यमदशतालपुरुषभामम् । कनिष्ठदशतालेन स्त्रीमानमथ कथ्यते ।। ६० ।। सार्धेनांशैर्मुखायामः केशान्ताक्ष्यन्तविस्तृतिः । भागात् ततः पुटान्तं च सयवैर्वेदमात्रकैः ततो इन्वन्तरं तावत् कंण्ठान्तं च हनोस्तथा । कण्ठाच हृदो नाभिः सार्धसूर्यालान्तरम् || ६२ ॥ बेरे समविभक्ते तु सषोडशशता लैः । उष्णीषकक्षजान्वतिलोच्चं वेदमात्रकैः || ६३ ।। सार्धेनांशैर्मुखायामः केशान्तादक्षिसूत्रतः । सपाद वेदमात्रैः स्यात् ततः सयवभागतः ॥ ६४ ॥ पुटान्तोऽस्माच्च हन्वन्तमथाकण्ठाद्धृदन्तकम् । हृदो नाभिस्ततो योनिः सार्धसूर्याङ्गुलैः पृथक् ॥ ६५ ॥ अभिकृत्यशकैरूरू जङ्गे चोर्वोः समे मते । षोडशांशै: पदायामो बाहू चोर्वोः समौ मतौ ॥ ६९ ॥