पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शमूर्तिलक्षणम्] उत्तरार्धे त्रिचत्वारिंशः पटलः । आस्यव्यासस्तु वेदांशैस्त्रिवर्गोचरपालिका | कलायतः स्यादघरस्तदर्धेन तु विस्तृतः ॥ ८० ॥ तत्पाली यवमाना स्याच्छेषं बिम्बफलाकृति । सयवयंशतो नेत्रदैर्ध्य व्यासस्तु षड्यवः ॥ ८१ ॥ हनोस्तथा कण्ठवेशः सार्धरामाङ्गुलैः स्मृतः । गोजीमूलात् तु नासोच्चं स्यात् सषड्यवमात्रतः || ८२ ॥ कर्णायामस्तु भागेन सपादकलया ततिः । भागेन नाळालम्ब: स्याच्छेषमू हि पूर्ववत् ॥ ८३ ॥ मध्यमदशतालेन स्त्रीमानं चापि तेन पुंमानम् | दशतालात् तु कनिष्ठात् स्त्रीमानस्येह लक्षणं कथितम् ॥ ८४ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे कियापादे स्त्रीपुंमानादिलक्षणपंटलो द्विचत्वारिंशः ॥ अथ त्रिचत्वारिंशः पटलः । अभ षोडशमूर्तीनामाकाराद्यं निगद्यते । .तत्रोमास्कन्दयुक्तस्य शम्भोर्लक्षणमुच्यते ॥ १ ॥ ऋज्वागतं रजोभावमर्धपर्यङ्कमासनम् (?) । वामाङ्घ्रि शाययेत् पीठे दक्षिणं तु प्रलम्बयेत् || २ || आसनान्ताच्च केशान्ताजान्वन्तं तु समं भवेत् । जानुनोर्बाचपार्श्वे च जान्वन्ताद् बाहुपार्श्वकम् ॥ ३ ॥ परहस्तद्वयस्यापि मध्यश्च मणिबन्धयोः । ऊर्ध्वकायसमं कुर्यात् सर्वमेतद् यथाक्रमम् ॥ ४ ॥ मध्यसूत्रं किरीटाग्राद् गुल्फमध्ये तु लम्बयेत् । प्रविष्टं दक्षिणं जानु सूत्राद् द्विव्यङ्गुलं भवेत् ॥ ५ ॥ मध्यसूत्रादिनांशैस्तु तदनिलकान्तरम् । मन्वंशरन्तरं सूत्राद् दक्षिणात् पाणिमध्यतः || ६ ||