पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० ईशानशिवगुरुदेवपद्धती सूत्रात् पञ्चदशांशैः स्यात् तथा वामतलान्तरम् । असव्यपाणिमध्यामं स्तनसूत्रसमोन्नतम् ॥ ७ ॥ वामोरोर्वामहस्तस्य चान्तरं द्वित्रिमात्रतः । कर्तरीकरयोरमे हिक्कासूत्रससे स्मृते ॥ ८ ॥ श्रोणीकोपरयोर्मध्ये पञ्चांशं वा षडंशकम् । त्रियोपाट: मेहूदक्षान्तरं तद्वत् कुक्षिस्पृग् घ्राणसूत्रकम् ॥ ९ ॥ द्विसप्तातिजगत्यर्कमात्रै मध्यमसूत्रतः । मौल्यमं कर्तरीहस्तावन्तर्वा बहिराननौ ॥ १० ॥ परशुं च कुरङ्गं च कुर्याद् दक्षिणबामयोः । अभयं दक्षिणे हस्ते वामे तु कटकं करे ॥ ११ ॥ शङ्खपत्रकनक्राख्यमण्डले वामदक्षिणे ।. मौलितुझं तु केशान्तात् सत्रिपादद्वितालकम् ॥ १२ ॥ सार्धद्वयं द्वितालं वा तश्व कुर्याद् सलक्षणम् । वामपार्श्वे सहासीनां कुर्याद् देवस्य पार्वतीम् ॥ ११ ॥ लम्बितं शयितं पादं कुर्याद् वामं च दक्षिणम् । किञ्चिद् देवाश्रिता नम्रवदना समलकृता ॥ १४ ॥ वरदोत्पलसंयुक्ता बामदक्षिणहस्तयोः । वामोरुबाह्ये पीठस्थ वामहस्ताथवा भवेत् ॥ १५ ॥ वेदांशैरुत्कृतिसितैः स्कन्दो मध्येऽनयोर्भवेत् । स्वतुझं पञ्चतालेन विभज्याङ्गानि कारयेत् ॥ १६ ॥ अङ्गुलेन शिरोमानं केशान्तादक्षिसूत्रकम् । सार्धत्रिमात्रैस्तैरेव पुटान्तं च ततो हनुः ॥ १७ ॥ त्रिमात्रैः स्यात् तथा कण्ठो नन्दनागाब्धिमात्रकैः । हिक्काया हृत् ततो नाभिर्नाभेद् च संमितम् ॥ १८ ॥ ऊर्वायामस्तु सूर्यांशैः कला जान्वथ जङ्घिका । रुद्रांशैः कलया पादस्तलायामो दशाङ्गुलः ॥ १९ ॥ मन्वङ्गुलायतौ बाहू प्रकोष्ठोऽपि दशाङ्गुलः । . वेदांशैः स्यात् तलायामो मध्या च चतुरङ्गुला ॥ २० ॥ सार्धरामालायामा तर्जनी चाप्यनामिका ।