पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशमूर्त्तिलक्षणम् ] उत्तरार्धं त्रिचत्वारिंशः पटलः । आकुञ्चिताभ्यां पादाभ्यां स्थितं कुर्यात् सलक्षणम् । चन्द्रशेखरलक्ष्माथ समपादस्थितो भवेत् ॥ २२ ॥ उष्णीषे च ललाटे च नासाग्रे हनुमध्यमे । हिक्काहृदयगुब्योरःपादमध्येषु लम्बयेत् | २३ || कर्तर्यग्रं तु हिक्कान्तं स्तनान्तमभयाग्रकम् । वरदं नाभिसीमान्तं कट्यन्तं वापि कारयेत् ॥ २४ ॥ सूत्रादमयमध्यान्तं त्रिपञ्चाङ्गुलविस्तृतम् । अशैः परहस्तान्तं दशाङ्गुलमथापि वा ॥ २५ ॥ अत्यष्टिधृतिमात्रैर्वा सूत्रात् कोपरमध्यकम् । एकाङ्गुलेनोरुमूले जानुमध्यं तु भागतः ॥ २६ ॥ पञ्चाशैर्जङ्घयोर्मध्यभागात् पार्ण्यन्तरं भवेत् । • और्ध्वकर्तरिहस्तौ तु कुठारमृगधारिणौं || २७ ॥ जटामकुटवामस्थ बालचन्द्रोऽहिभूषणः । ऋज्वागत: प्रवालाभ: कार्य: स्याच्चन्द्रशेखरः ॥ २८ ॥ समभङ्गोऽतिभङ्गो वा भवेद् वृषभवाहनः । ऋजुः स्थितो दक्षिणाङ्घ्रिर्वामपादोऽस्य कुञ्चितः ॥ २९ ॥ तिरश्चीनाङ्घ्रिजङ्घो वा लम्बसूत्रस्य चोच्यते । उष्णीषाद् वामभाले तु वामनेत्रे पुटान्तके ॥ ३० ॥ बामस्तने च नाभ्यूरुपाणिमध्यस्य लम्बनम् । स्यात् तिरश्ची नजङ्घोऽयमतिभङ्गे तु नान्यथा ॥ ३१ ॥ नाभेर्वा च वामोरुमध्ये दक्षिणगुल्फके । सूत्रं तु पातयेना मेरूधं प्राग्वदिहापि च ॥ ३२ ॥ नतिमानं शरांशैः स्याद् देवस्यं वृषमस्तके | न्यस्तव्यः कोर्परो वामो हिक्कातोऽष्टादशाङ्गुलः ॥ ३३ ॥ • कोपराधस्तथा पीठादू यावद् वृषोलतिः । कटीदेशावलम्बी वा वामेतरकरो भवेत् ॥ ३४ ॥ १० 'त्रि' क. ख. पाठः