पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'ईशान शिवगुरुदेवपद्धत परहस्तादिकं सर्वे चन्द्रशेखरखद् भवेत् । समभङ्गास्थिता देवी लम्बवामकरा भवेत् ॥ ३५ ॥ सोत्पला दक्षिणे हस्ते बाहुः स्तनमितो विभोः । सोमास्कन्दशिवलक्षणम् । नटेश्वरश्चतुर्बाहुत्रिणेत्रश्चन्द्रशेखरः ॥ ३६ ॥ गृहीतों ऽसोऽर्घमानात्तु नतिमानं दशाङ्गुलम् । सूर्याङ्गुलं वा सूत्रस्य लम्बनं त्वथ कथ्यते ॥ ३७॥ उष्णीषात् सन्यभाले च तत्पुटे हनुमध्यतः । हिक्काना(भो भ्यो)स्तथा मध्ये सव्यंगुल्फे च पातयेत् ॥ ३८ ॥ प्रसारितभुजामं तु विकारांशायतं ततः । भागात् परकराग्रं तदष्टपन्चाशदङ्गुलैः ॥ ३९ ॥ सूत्रात् साग्निकराग्रं स्यात् ततो डमरुकाग्रकम् । चत्वारिंशद्भिरष्टांशैः कर्णसीमासमो (भ? द) यम् ॥ ४० ॥ सूर्याशैर्दक्षिणे पार्श्वे सूत्रात् कक्षान्तरं भवेत् । प्रसारितजटाभार: किञ्चित् प्रहसिताननः ॥ ४१ ।। व्याघ्रचर्भाम्बरः कार्यो ह्यारोपरि स्थितः । गणैर्देवर्षियक्षाद्यैर्विभैशरकन्दमातृभिः ॥ ४२ ॥ भृङ्गीशेन महाकाल्या पार्वत्या वृषभेण च । मृदङ्गं नादवन् नन्दी सुपविष्टश्चतुर्भुजः ॥ ४२ ॥ हलपल्लवपाणिः स्याद्वन्दनचा च समन्वितः | 'भुजका सनुत्तलक्षणम् ।. स्थितदक्षिणपाद: स्यात् कुञ्चितान्यपदाम्बुजः ॥ १४ ॥ उष्णीषाद् दक्षिणे भाले दक्षिणेऽथ पुढे ततः । हिक्कामध्ये नामिदेशाद् दक्षिणे द्यङ्गुले ततः ॥ ४५ ॥ मेढमूले तथा पार्थ्योर्मध्ये सूत्रं प्रलम्बयेत् । साचीकृतशरीरः स्याद् वामांशावनता ततः (१) ॥ १६ ॥