पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिव गुरुदेवपद्धतौ दंष्ट्री पिनोर्ध्वकेशः स्याद्धराङ्घ्रयङ्गुष्ठपीडितः । कालकाललक्षणम् । लिङ्गोद्भवो लिङ्गमध्ये चन्द्रशेखरवत स्थितः ॥ ४२ ॥ नलकाध: पंदद्वन्द्व लिङ्गमूले तिसोहितम् । दक्षिणेनोर्ध्वगः कार्यो हंसरूपी पितामहः ॥ ८३ ॥ वराहस्तु हरिर्वामे साञ्जलि: स्यादधोमुखः । लिकोद्भवलक्षणम् | [कियापा:: द्वारलिङ्गोच्छ्रितः श्रेष्ठो मध्यो वेदांशहानितः ॥ ८४ ॥ अर्धहीनः कनिष्ठः स्याद् वृषभो लक्षणान्वितः । द्वारादध्यमुच्चो वा संपाद द्विगुणोऽथवा ॥ ८५ ॥ ● हस्तादिन वहस्तान्तं नीचमध्योत्तम त्रयम् । वृषोत्सेधे तु पञ्चाशदंशे भागोऽङ्गुल स्मृतम् ॥ ८६ ॥ उत्सेधात् पञ्चमांशेन आयामो वृषभस्य तु । 'मूर्ध्नो गलान्तः पङ्क्त्यशैदीर्घः कण्ठोऽष्टमात्रकैः ॥ ८७ ॥ . कण्ठादुरो विकारांशै रूर्वोदैर्ध्य षडङ्गुलैः । द्विमात्रं जानु षण्मात्रा जङ्घा व्यंशोन्नतं खुरम् ॥ ८८ ॥ शृङ्गान्तरं स्याद् वस्वंशैः शृङ्गोच्च चतुरङ्गुलम् । भालं नन्दांशविस्तीर्ण मुखव्यासः शराङ्गुलैः ॥ ८९ ॥ मुखोत्सेधस्तु बाणांशैर्नेत्रायामस्तु कोलकात् ( ? ) । तथ्यासः सार्धमात्रोऽस्माद् भागोच्चं चतुरङ्गुलम् ॥ ९० ॥ नेत्रकर्णान्तरं तावत् कर्णायामः शरांशकैः । सार्धमात्रायतं घ्राणं तयासावटमङ्गुलात् ॥ ९१ ॥ द्वित्र्यंशावधरोष्ठौ तु जिह्वा त्रियेकमात्रतः । दीर्घाततोच्चाथ ककुत् षड्वेदांशतनोर्नता ( ? ) ॥ ९२ ॥ अपरोर्योः क्रमाद् व्यासो दशाष्टचतुरङ्गुलैः । तदायामः शरांशैः स्याद् धंशं जान्वथ जङ्घयोः ॥ ९३ ॥ रामेष्वशैस्ततिदैर्ध्य खरोत्तुङ्गं त्रिमात्रकम् । पुच्छायामस्तु जवान्तस्त्र्यंशस्तन्मूलविस्तृतः ॥ ९४ ॥