पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तम्भालङ्कारः]

उत्तरार्धे एकत्रिंशः पटलः । हान्या प्रत्यङ्गमङ्गं तु शोभां कुर्याद् यथारुशचे । उपानोपर्युपोपानं सपद्मं कम्पकं तथा ॥ १८ ॥ चतुरथं यथाशोभमधिष्ठानेषु योजयेत् । अत्र मयः इति ।

“तैतिलानां चतुर्हस्तं त्रिहस्तार्धं द्विजन्मनाम् | राज्ञां त्रिहस्तं सांध्यर्धं द्विहस्तं यौवराजकम् || द्विहस्तमेव वाणिजां शूद्रस्यैककरं स्मृतम् ॥”

अधिष्ठानाधिकारः ।

स्तम्भाः स्थूणास्तथा पादाः कुम्भाः कम्पाङ्मघ्रयोऽपि च ॥ १९॥ स्तम्भपर्यायशब्दाः स्युरथ तल्लक्ष्म कथ्यते । आमूलाग्रं तु वेदाश्रः कुम्भमण्डिसमन्वितः ॥ २० ॥ ब्रह्मकान्ताभिधानः स्यात् स्तम्भः शैलोऽपि दारुजः । अष्टाश्रो विष्णुकान्ताख्यः स्कन्दकान्तः षडश्रकः ॥ २१ ॥ स एवेन्द्राहयो भानुकान्तः स्याद् द्वादशाश्रकैः । षाडशाश्रश्चन्द्रकान्तो वृत्तश्चेदीशकान्तकः ॥ २२ ॥ स्वतुङ्गरामभागेषु वेद वस्वश्रवर्तुलम् | कुम्भमण्ड्यादिसंयुक्तं रुद्रकान्तं प्रचक्षते ॥ २३ ॥ मूले पद्मासनश्चाथ चक्रवाकैरलङ्कृतः । सभद्रमध्यभागश्च भद्रकान्तो द्विमण्डिकः ॥ २४ ॥ व्यालेभसिंहभूतस्तु मूले यः परिमाण्डितः । इष्टकारस्तथैवोर्ध्वं तत्तत्कान्ताह्वयो भवेत् ॥ २५ ।। वृत्त एव स्वदीर्घेण शुण्डुभेदेन संयुतः । शुण्डुपादो भिण्डिपादः स चेन्मुक्ताविचित्रितः ॥ २६ ॥ मूले वेदाधकश्चोर्ध्वं षोडशाश्राद्यलङ्कृतः । स्यान्मूलचतुरश्राख्यः पद्मापद्मासनः स्मृतः ॥ २७ ॥ २. 'न' ख. पाठः ३. 'दः पि' ग. पाठ.