पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्] उत्तरार्धे विस्वारिंशः पटकः | लाङ्गूलामं तु साधाशं मुष्कव्यासं त्रिमात्रकैः 1 तदायामो द्विमात्रः स्याच्छेफायामस्त्रिमात्रकः ॥ ९५ ॥ शेषमूहवशांद् युक्त्या कुर्याद् वा शयितं स्थितम् । वृषलक्षणाधिकारः । अथ त्रिशूलं द्वारोच्चं स्तम्भोच्चं वा विधीयते ॥ ९९ ।। तदुच्चनन्दभागांशद्व्यंशोने मध्यमाघमे । हस्तैर्वा वेदरामाश्विसंख्यैः श्रेष्ठादिकं त्रयम् ॥ ९७ ॥ त्रिशूलोत्सेधबाणांशादशस्तत्पत्रतुङ्गता । अर्धाशोचं मध्यपत्रं त्रिपर्वकुलिशाकृति ॥ २८ ॥ पत्रोत्सेधे तु वस्वंशे स्यादंशात् पत्रविस्तृतिः | मध्यपत्रे मध्यपर्व द्वियवेनाधिकं भवेत् ।। ९.९ ।। पत्रोच्चशरभार्गेऽशादधोनालस्य दीर्घता । उत्तानाम्बुजवन्नालं नालोर्ध्वं पार्श्वपत्रके ।। १०० ॥ सार्धधंशान्मध्यपत्रे स्थित्वा पार्श्वद्वयंभ्रमात् । पद्माप्रावधि शूलाग्रात् पार्श्वपत्रे तु वर्तयेत् ॥ १०१ ॥ ततो मध्यमपत्रस्य स्थित्वा दक्षिणपार्श्वयोः ( ? ) 1 पार्श्वयोः पार्श्वपत्रान्तः सीमान्तं वर्तयेत् समम् ॥ १०२ ॥ मध्यपत्रस्य मूलं तु पत्रव्यासार्धविस्तृतम् । पत्रात् पादोनमग्रं स्यात् त्रिपादाद् वार्धतो घनम् ॥ १०३ ॥ शातप्रान्तानि पत्राणि तीक्ष्णधाराणि कारयेत् | मध्यपत्रस्य मध्ये तु पद्ममन्यत्र पत्रकम् ॥ १०४ ॥ मध्यपत्राप्रतारं स्यात् पादांशान्मुकुलोपमम् । वेणुपत्राकृती पार्श्वपत्राओं मध्यपत्रक : (१) ।। १०५ ॥ तयोरन्तरमशाद वृत्तमेवं प्रसाधयेत् । स्वायामात् पञ्चपञ्चांशात् स्यादङ्गाद् दण्डावस्तृतिः ॥ १०६ ॥ सुवृत्तं निर्वणं चारुं नालाघः फलकान्वितम् । तदधो मण्डिकुम्भादिपादालङ्कारवद् भवेत् || १०७ ।। १. 'यं' क. पाठः,