पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ दण्डमूलं सपद्मं स्यात् स्वव्यासत्रिगुणं तु तत् । कहप्रत्यूहतो युक्त्या शोभां सर्वत्र योजयेत् ॥ १०८ ॥ सौवर्ण राजतं ताम्रं लौहं वा स्यात् स्वशक्तितः । वृत्तत्रिशूललक्षणम् । मात्र स्वायम्भुवे - इति । "वृत्तं त्रिभङ्गि वेतालमिति शूलं त्रिधा स्मृतम् । शान्तिकं पौष्टिकं चाभिचारकं च क्रमेण तंत् || "" [क्रियापादः तत्र वृत्तं समाख्यातं त्रितयेऽपि च तत् समम् ।। १०९ ॥ विशिष्टं तु त्रिभङ्गस्य पार्श्वपत्रद्वयस्य तु । मध्यं स्यादन्तरे भुममर्धतः परिमण्डलात् ॥ ११ ॥ त्रिभङ्गशुलम् | वेतालस्यापि पत्राणि ऋज्वग्राण्यष्टमांशतः । वेतालो नालमूले तु तत्प्रोतः स्याच्छरांशतः ॥ १११ घण्टाचतुष्टयोपेतः फलका श्रिचतुष्टये | वेतालशूललक्षणम् । वेतालशूलवत् सर्वं खट्वाङ्गस्यापि कारयेत् || ११२ ॥ समुण्डें मध्यपत्रादौ प्राग्वद् वेतालसंयुतम् । मयूरपिञ्छवृत्ताढ्यं फलका मूलतो भवेत् ।। ११३ ।। अष्टभिर्वा चतुर्भिर्वा घण्टाभिः प्राग्वदन्वितम् । खट्वेषावत् तु वेदाश्रो दण्डोऽस्य फलकाकृतिः ।। ११४ ॥ लतापत्रादिचित्रः स्यादूहप्रत्यूहयुक्तितः । खास्यिवकारः । गणेशः पञ्चतालस्तु खासीनो वा स्थितौ भवेत् ॥ ११५ ॥ उष्णीषाघो मुखं तालं सार्धतालायताः कराः । कण्ठो भुमस्तु गूढः स्याद् गजवक्त्रास्त्रलोचनः ॥ ११६ ॥