पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे चतुबत्वारिंशः पटलः । सार्थद्वितालं कण्ठाघोमानमा कटिसूत्रतः । सातालायतौ पादौ पीवर: सर्वतो भवेत् ॥ ११७ ॥ इति मानमशेषतः स्फुटं सकलानां कथितं यथाक्रमम् । इह षोडशमूर्तिलक्षणं पृथगुक्तं निखिलं समासतः ॥ ११८ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापदे षोडशमूर्तिलक्षणं नाम त्रिचत्वारिंशः पटलः ॥ ४१९ अथ चतुश्चत्वारिंशः पटलः । ● प्रासादे परिनिष्ठिते त्वथ तथा लिङ्गे प्रतिष्ठोचिते प्रासादं परिगृह्य तक्षककरात् सूत्रत्रयायेष्टितम् । कोईया चापि च माझ्या च पस्तिः संवेष्टय धान्याक्षतैः सर्वत्र प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् ॥ १ ॥ ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु दहाशंसायम् । 'तु ऋचोऽर्थमायोज्य जपेदशेषं रक्षोघ्नमेवं तु जपादिषु स्यात् ॥ १ ॥ कृत्वा पुनः स्थण्डिलमग्निभागे तत्राभिमाधाय तथाविधानम् । हुल्या पुरैवाभिमुखं जुहोतु रक्षोहणं वाजिनमित्युभाभ्याम् ॥ ३ ॥ पुनः कृणुष्वादिभिरत्र मन्त्रैराज्येन हुत्वा तु यथाक्रमेण । तद्वद् विभिन्नैरथ पञ्चभिर्येदेवादिमन्त्रैर्जुहुयाच्चतुर्भिः ॥ ४ ॥ इषेत्वेत्यादिना तद्वदग्रिमीलेति चादिना । अमआयाहिपूर्वेण शन्नोदेवीरभीति च ॥ ५ ॥ ततस्तु पञ्चदुर्गाभिर्वेदोक्तांभिर्जुहोतु च । जातवेदस इत्या या ऋग् दुर्गा प्रथमा भवेत् ॥ ६ ॥ ताममिवर्णामित्याद्या द्वितीया समुदीरिता । -अमे त्वं प्रास्तानव्य अस्मानाद्यं तृतीयकम् ॥ ७॥ विश्वानि प्रो दुर्गहायश्चतुर्थो मन्त्र ईरितः । तनाजिष्ठमित्यादिः पञ्चमो मन्त्र उच्यते ॥ ८ ॥ एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् । ततो यातिभिस्तद्वदघोरात्रेण वै पुनः ॥ ९ ॥