पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिष्ठाविधिः ] उत्तराधे पन्चचत्वारिंशः पटलः । अनेनैव तु मन्त्रेण स्थाली संक्षास्य तज्जलम् । पात्रे प्रक्षाल्य कमिचिच्छेषाज्यं शेषमम्बु च ॥ २४ एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा । पालाशशाखया बाथ दर्भमुष्ट्याथवा पुनः ॥ २५ ॥ मासादमण्डपादौ तु सर्वत्र त्रिः प्रदक्षिणम् | पर्युक्षन्नथ पर्येति ततः सम्पूज्य वै द्विजान् ॥ २६ ॥ त्वं विप्रस्त्वं कविरिति मन्त्रेणानेन भोजयेत् । आशिषो वाचयित्वाग्रे शिवं वास्त्विति वाचयेत् ॥ २७ ॥ प्रासादशान्त्यर्थमपी शुद्धौ रक्षोन्नहोमोऽपि च वास्तुहोम | लिङ्गप्रतिष्ठाविधिपूर्वकाले कर्तव्य इत्यत्र यथावदुक्तः ॥ २८ ॥ इति श्रीमदीशानशिव गुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे रक्षोघ्नहोमवास्तुहोमपटलश्चतुत्वारिंशः ॥ अथ पञ्चचत्वारिंशः पटलः । लिानां निष्कलादीनां प्रतिष्ठा पञ्चधा स्मृता । प्रतिष्ठा स्थापनं तद्वत् स्थितस्थापनमित्यपि ॥ १ ॥ उत्थापनास्थापने च पृथक् तल्लक्ष्म लिख्यते । यत्र ब्रह्मशिलायां तलिङ्गमादौ निधाय तु ॥ २ ॥ क्रियते पिण्डिकायोगस्तां प्रतिष्ठां प्रचक्षते । स्थापनं बाणलिकानामार्षाणां च स्वयम्भुवाम् ॥ ३ ॥ रत्नहेमादिलिङ्गानामेका चेत् पिण्डिका तदा । स्थितस्थापनमुद्दिष्टं जीर्णे चोत्थापनं भवेत् ॥ ४ ॥ आस्थापनं स्याद् व्यक्तानां विष्ण्वादीनां च तत् तथा । अथोत्तरायणे पूर्व गुणान्विते ॥ ५ ॥ प्रशस्ततिथिनक्षत्रवारयोगदिनादिके । दोषैर्गुणैश्च पूर्वोत्तैहींने युक्ते सुसम्मते ॥ ६ ॥ यजमानानुकुले च प्रतिष्ठाकर्म शस्यते । प्रासादस्यामतः कुर्याच्चतुरश्रं तु मण्डपम् ॥ ७ ॥ 7.