पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ प्रशस्त तरुवंशाद्यैर्नूतनैः सुमनोरमम् । हस्तादिलवहस्तान्तलिङ्गानां प्रथमत्रिके ॥ ८ ॥ वसुनन्ददिशाहस्तैरथार्क मनुषोडशैः । तृतीये स्याद् घृतिकृतिकरैश्चोत्कृतिसम्मितैः ॥ ९ ॥ पर्यन्तभित्तिसंयुक्तं चतुर्दिग्द्वारशोभितम् । एकाशीतिपदांशस्य स्यान्मध्यनवकेन तु ॥ १० ॥ रसार्कषोडशांशोच्चां वेदिं कुर्यान्मनोरमाम् । कुण्डाष्टकं तु पूर्वादिदिक्षु कुर्याद् यथाक्रमम् ।। १.१ ॥ बेदाश्रयोनिखण्डेन्दुत्र्यश्रं वृत्तं षडभकम् । पंचाकारं च वस्वश्रं नवमं चतुरश्रकम् ॥ १२ ॥ तबेन्द्रेशानयोर्मध्ये प्राङ्मुखेंऽशे विधीयते । रक्षोवरुणयोर्मध्ये लिङ्गे स्यात् पश्चिमामुखे ॥ १३ ॥ सर्वाणि चतुरआाणि वृत्तानी त्यपि केचन | -कनिष्ठादि त्रिलिङ्गानां रत्न्यरत्निकरराणि तु ॥ १४ ॥ कनिष्ठादीनि कुण्डानि स्युर्वात्राहुतिसंख्यया | स्युः पञ्चमूर्तिपक्षे तु पश्च कुण्डानि तान्यपि ॥ १५॥ चतुरश्राणि दिक्ष्वीशशकमध्ये तु पञ्चकम् । एकं वेन्द्रयां भवेत् कुण्डमशक्तौ वा कनिष्ठ ॥ १६ ॥ प्रागुदीच्या तु वोदीच्यामधिषासनमण्डपात् । कुर्यादप्रमाणेन तद्वत् रुपनमण्डपम् ॥ १७ ॥ तस्यैकोतु त्यक्त्वाथ परितो बहिः । मानवेदि पशोचा परितस्तु रसांशकैः ॥ १८ ॥ उच्चव्याससमां कुर्याच्छोभनां तु वितर्दिकाम् | जलनिर्गमनालं च भवेदुत्तरतः शुभम् ॥ १९ ॥ कुण्डसंख्यासमं कुर्यात् सुक्सुवाधं पृथक् पृथक् । निद्राकुम्भं शान्तिकुम्भान्छिवकुम्भासंवर्धनीः ॥ २०॥ विदेशलोकपालानां कुम्मन् वा तोरणाश्रितान् । अभ्यङ्गपात्रं वस्त्राणि तद्वच्चैवाष्टमङ्गलम् ॥ २१ ॥ 1