पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१०
अत्र
ईशाशिव
2.
मूलान्त्ययोस्तु वेदाश्रो मध्ये अष्टाश्रचलङ्कृतः ।
वज्रकान्तः स विज्ञेयो मुक्तास्तम्भः समौक्तिकः ॥ २८ ॥
यद्रत्नचित्रितस्तम्भस्तत्तद्गत्लाइयो भवेत् ।
मूले पद्मासनो मध्ये षोडशा धैरलङ्कृतः ॥ २९ ॥
ऊर्ध्वाशे चतुरश्रोऽघ्रिश्चित्रखण्डाह्वयः स्मृतः ।
स एवाष्टाश्रको मध्ये श्रीखण्ड: पट्टबन्धवान् ॥ ३० ॥
मध्ये कलाश्रः पट्टेनं नद्धः श्रीवज्रसंज्ञितः ।
पट्टक्षेपणसंज्ञः स्याच्चतुरश्रपि ॥ ३१ ॥
मूलाग्रयोस्तु विपुलो मध्ये रामांशतः कृशः ।
वृत्तश्चेद् दण्डपादाख्यो वज्रपादः कलाश्रकः ॥ ३३ ॥
स्यादुलखलपादाख्यो मूलस्थोलूखलासनः ।
पादमधे त्रिभागं च भित्तिस्तम्भ विनिर्गमः ॥ ३३ ॥
चतुरश्राष्टवृत्तानां विज्ञेयस्तु क्रमाद् भवेत् ।
मूलभूस्तम्भावस्तारो ह्यष्टाविंशतिकाङ्गुलः ॥ ३४ ॥
यङ्गुलब्यङ्गुलं हाप्यो व्यासः प्रतितलं क्रमात् ।
आत्ताधिष्ठानतुङ्गात् तु स्तम्भोत्सेधो द्विधा मतः ॥ ३५ ॥
रुद्रदिङ्नन्दबस्वंशादंशोनोऽङ्घ्रिस्तले तले ।
एवं मूलाग्रयोर्व्यासतुङ्गता स्तम्भकुड्ययोः ॥ ३६ ॥
“कुड्यस्तम्भाप्रविपुलं यत्तद्दण्ड इत्युच्यते ।
तन्मानेन विमानानां सर्वाण्यङ्गानि मेयानि "
इति पराशरः |
[क्रियापाद:
मूले चाग्रे च पादानां त्रिचतुष्पञ्चभागतः ।
शिखा मानेन कर्तव्या स्थाप्याः सर्वे तथाइमैसु || ३७ ॥
स्वद्रव्येणैव पादानां मूले वेदिं प्रकल्पयेत् ।
पादोच्चनन्दभागाद् वा वस्वंशाद् वेदिकोच्छ्रयः ॥ ३८ ॥
विस्तारश्च भवेत् तावान् सा बेदी स्याचतुर्विधा ।
पुष्पखण्डा चित्रखण्डा शैवला चित्रशैवला || ३९ ||
१. 'लाहाप्यो' ख. ग. पाठ:• २. 'पाः' ग. पाटः ३. 'त्म' ख. पाठ..