पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपतौ यथावत् संस्कृते कुण्डे समाधाय शिवानेलम् । नामान्तं पञ्चसंस्कारैः संस्कृत्याराध्य तं गुरुः ॥ ८९ ॥ मध्यादिनवदिक्संस्थं पञ्चधा वा विभाजितम् | तत्तद्दिगनलांशांस्तु तत्तत्कुण्डे निधापयेत् ॥ ९० ॥ ततो मध्यमकुण्डामौ शिवमावाय देशिकः । मन्त्राणां तर्पणं कुर्यात् तच्च मूलं शिवान्तिकम् ॥ ११॥ चतुर्थ्यामिप्रियान्तं स्यात् तेन त्वष्टोत्तरं शतम् ।. हुत्वा ब्रह्माङ्गमन्त्राणां तद्दशांशं जुहोति च ॥ ९२ संस्थाप्य प्रतिकुण्डं तु शान्तिकुम्भान्छिवास्त्रतः | संपाताभिहुतान् कृत्वा गुरुर्मूर्तिधरैः सह ॥ ९३ ॥ हुत्वा पूर्णाहुतिं यायाल्लक्षणोद्धारंमण्डपम् । तच्चोत्तरेऽथवैशान्याम घिवासनमण्डपात् ॥ ९४ ॥ कुर्याद् वेदित्रयोपेतं लक्षणोद्धारमण्डपम् । तस्मिन् दक्षिणवेद्यां तु लिङ्गं पीठे निघाय तु ॥ १५ ॥ पीठं च तद्दक्षिणतः कुर्यादाकारशोधनम् । अष्टमृद्भिः पुरोक्ताभिः कषायैश्च क्रमोदितैः ॥ ९९ गोमूत्रगोमयाभ्यां च पुष्पधूपजलान्तरैः । स्वापयित्वा द्वितीयायां वेद्यां वा स्थण्डिके कृते । शालिभिस्तण्डुलैश्चापि तस्मिल्लिङ्गं निधाय तु । पूर्वोक्तेन विधानेन लक्षणोद्धारमाचरेत् ॥ ९८ ॥ अथाष्टौ वा चतस्रो वा नार्यो मङ्गल्यलक्षणाः दर्भैः स्पृशेयुस्ताल्लङ्गं कुर्युनीराजनं तथा ॥ ९॥ सन्ताड्यास्त्रेणार्ध्यतोयैः कवचेनावकुण्ठ्य तु । स्वमन्त्रेणाथवा कुर्यात् पूजां साधारणेन वा ॥ १००८11 गोमूत्रगोमयक्षीरदध्याज्यमधुभिः पृथक् । पञ्चगव्यकुशाम्बुभ्यां गन्धाद्भिश्चाभिषेचयेत् ॥ १०१ ततो वसनगन्धस्रग्धूपदी पोपहारकैः । इष्ट्वा रथादावारोप्य भेरीपटहडिण्डिमैः ॥ १२ ॥ }