पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रीतष्ठा विधिः] उत्तराधे पञ्चचत्वारिंशः पटलः । झल्लरीतिमिलाशङ्कतालमर्दलकाहलैः । वेणुमड्डकवीणा दिवादित्रध्वनिमङ्गलैः ॥ १०३ ॥ गीतनृत्तजयाशीर्भि: प्रदीपच्छत्रचामरैः । प्रेक्षणीयैर्ध्वजैश्चान्यैर्ग्रामादेस्तु प्रदक्षिणम् ॥ १०४ ॥ कृत्वा जलाधिवासार्थं नदीतीर्थहृदादिकम् । आसाद्य तीरे स्वालिप्ते देवं संस्थाप्य पूजयेत् ॥ १०५ ॥ प्रागेव जलमध्ये तु नाभिदघ्नचतुष्पदीम् । प्रपां कृत्वा तु तन्मध्ये पीठादौ शाययेच्छिवम् ॥ १०६ ॥ वेष्टितं बसनैदर्भैः प्राक्छीर्षं चोर्ध्वसूत्रकम् । तत्पार्श्वे विन्यसेत् पीठं दर्भवस्त्रादिभूषितम् ॥ १०७ ॥ रक्षायै कलशानष्टौ लोकपालाधिदैवतान् । विन्यस्य दिक्षु संपूज्य परितो रक्षिणस्तथा ॥ १०८ ॥ पञ्चत्रियेकरात्रं वा दिनार्धं याममेव वा । अतीत्योत्तारल्लिङ्गं तीरे विन्यस्य पुजयेत् || १०९ || संज्ञाप्य पञ्चगव्यायैर्नवाभिः कलशैरपि । आलिप्य गन्धपन रक्तकौशेयवाससा || ११० ॥ आच्छाद्य हेममालाभिरलङ्कृत्याभिपूज्य च । स्थादियानमारोप्य नृत्तगीतादिमङ्गलैः ॥ १११ ।। स्तुतिभिर्ब्रह्मघोषैश्च ग्रामादेस्तु प्रदक्षिणम् । लिङ्गं तु कारयेत् तत्र हिरण्यवसनादिकम् ॥ ११२ ॥ कपर्दपूगताम्बूलरूप्यलाजाक्षतादिकम् । किरन्तो यजमानाद्याः पुष्पवृष्टीच पुष्कलाः ॥ ११३ ॥ गुरुर्देवाभतो गच्छेद् यजमानश्च पृष्ठतः। सामान्यायेजलैर्मार्ग सिञ्चेयुर्मूर्तिधारकाः ॥ ११४ ॥ स्नानमण्डपमासाद्य परिभ्राम्य प्रदक्षिणम् । प्रतीच्यां मण्डपद्वारि देव समवतारयेत् ॥ ११५ ॥ अर्ध्य तु पादयोर्दत्त्वा मण्डपान्तः प्रवेशयेत् । तन्मध्ये भद्रपीठस्य विवरे स्थापयेच्छिवम् ।। ११६। ४२९