पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशामशित्रगुरुदेवपद्धतो अशुद्धेऽध्वनि पृथ्व्यादौ प्रकृत्यन्ते स्थितास्तु याः | "देवतास्तत्प्रतिष्ठायां कपालीशादिमूर्तिपाः ॥ ७४ || कपालीशोऽमिरुद्रश्च यमो निर्ऋतिरेव च । बल: शीघ्रो निधीशश्च विद्याधिपतिरष्टमः ॥ ७५ ॥ वस्वादित्यादिरुद्राणां यक्षभोगीन्द्ररक्षसाम् । नरादीनां प्रतिष्ठाथामिन्द्राया मूर्तिपाः स्मृताः || ७६ ॥ इन्द्रादयोऽष्टौ लोकपाला इति यावत् । क्षुद्राभिचारा युद्देशात् प्रतिष्ठा क्रियते यदा । तत्र स्युर्मूर्तिपास्त्वष्टावसिताङ्गादिभैरवाः ॥ ७७ ॥ असिताङ्गो रुरुश्चण्डः क्रोधनोन्मत्तभैरवौ । कपाली भीषणश्चैव संहाराख्योऽष्टमः स्मृतः ॥ ७८ ॥ प्रतिमानामथोप्राणां प्रतिष्ठासु तमादिकोः । मूर्तीश्वर्यस्तमा मोहा क्षया निष्ठा च मृत्युना ॥ ७९ ॥ मया भया ज्वरा च स्युः पृथ्व्याचा एव मूर्तयः | उमाणां पन्चपक्षे तु तमा मोहा च घोरया ॥ ८० ॥ अरतिश्च ज्वरा चेति मूर्तीश्वर्यः क्रमोदिताः । प्रतिमानां प्रतिष्ठासु समानोऽयं विधिर्मतः ॥ ८१ ॥ त्रिभागभावना तत्र जानुकण्ठाशेरोवधिः । स्त्रीबेराणां प्रतिष्ठासु क्रियाशक्तिं तु पीठगाम् ॥ ८२ ॥ देहे ज्ञानीं च विन्यस्य कुर्याच्छेषं तु पीठवत् । तत्त्वतत्त्वेश्वरमूर्तिमूर्तीश्वरन्यासाधिकारः । ४३६ एवं विन्यस्य तत्त्वानि तदीशान् मूर्त्तिमूर्तिपान् ॥ ८३ ॥ तारादिभिर्नमोन्तैस्तु तत्तन्नामभिरर्चयेत् । तत्त्वादीनामवस्थानं लिङ्गादौ तत्र भावयेत् ॥ ८४ ॥ अथ कुण्डान्तिकं गत्वा तत्त्वतत्त्वेश्वरादिकम् । क्रम [दावा कुण्डेषु घृतेन जुहुयुः पृथक् ॥ ८५ ॥ १. 'स्तु' क. पाठः २. 'ता:' ख. पाठ: 1