मिजपाविविधिः] तद्यथा भोम् उत्तरार्धे षट्चत्वारिंशः पटलः । तारहत्पूर्वाधारशक्ति विन्यस्य चानले । इष्ट्वा त्रिराहुर्ताहुत्या आत्मतत्त्वं तु विन्यसेत् ॥ ८६ ।। आत्मतत्वाघिपायान्ते ब्रह्मणे च नमोन्तकम् | आवाह्याभ्यर्च्य पृथ्व्यादिमूर्त्तिमूर्त्त्यषिपानपि ॥ ८७ ॥ क्रमादावाह्य संपूज्य घृतेनाष्टोत्तरं शतम् । तदर्धे वा was वा तत्त्वादीनां जुहोति च ॥ ८८ ॥ उ॒थङ् मूर्तिधरांस्त्वेवं जुहुयुः स्वस्वमूतिभिः । अथाचार्यादयः सर्वे गत्वा लिङ्गान्तिकं सह ॥ ८९ ॥ स्वस्वमूर्त्तिप्रदेशेषु संस्पृश्य कुशमूलतः । जपेयुर्मूर्त्तिमूर्त्तीश मन्त्रानाहुतिसंख्यया ॥ ९० ॥ तत्त्वापिं तु ब्रह्माणं शिवाज्ञां श्रावयेत् पृथक् । आत्मतत्त्वाधिप ! ब्रह्मन् ! यावलिमिदं भुवि ॥ ९१ ।। निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्ञया । ओं ब्रह्मणे नमः इति । स्पृशन्तो मूलमन्त्रेण कुशमूलेन मूर्तिषु ॥ ९२ ॥ लिङ्गमले प्रोक्षयेषुः शान्तिकुम्भजलैः पृथक् । पुनः कुण्डान्तिकं गत्वा ओम् आत्मतत्त्वविद्या तत्त्वाभ्यां नमः । 1 इति तत्त्वे विभाव्य तु ॥ १३ ॥ शुद्धाशुद्धे तु सन्धाय विद्यातत्त्वं तु विन्यसेत् । तारहत्पूर्वकं प्राग्वद् विद्यातत्त्वं नमोन्तकम् ।। ९४ ।। विद्यातत्त्वाधिपायेति विष्णवे नम इत्यपि । इष्ट्वा हुवा तथा मूर्तिमूर्तीश्वरांस्तथा ॥ ९५ ॥ आवास जुहुयात् प्राग्वत् प्राग्वल्लिङ्गसमीपगाः | कुशमध्येन लिङ्गस्य जपेयुर्मध्यमस्पृशः ॥ ९६ ॥ मूर्तिमूर्तिमन्त्रांस्तु शिवाज्ञां श्रावयेत् पृथक् । विद्यातत्त्वेश:) भो विष्णो ! यावल्लिङ्गमिदं भुवि ॥ ९७ ।।
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति