पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ ईशानशिवगुरुदेवपदतां निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्या | औं विष्णवे नम इति । ओम् शान्तिकुम्भाम्भसा प्राग्वत् प्रोक्षयेयुश्च मूलतः ॥ ९८ ॥ प्राग्वत् कुण्डान्तिकं गत्वा शुद्धाशुद्धे विभाव्यतु । विद्याशिवाख्ये तत्त्वे तु सन्वाय च नमोन्तकम् ॥ ९९ ॥ शिवतत्त्वमुपस्थाप्य प्राग्वदिष्ट्रा जुहोतु च । विन्यस्य मूर्त्तिमूर्तीशान् पूर्ववज्जुहुयुः पृथक् || १०० ॥ लिङ्गान्तिकं तथा गत्वा मूलमन्त्रान् कुशाग्रतः । रुद्रभागं स्पृशन्तोऽथ जपेयुर्हुतसंख्यया ॥ १०१ ॥ शान्तिकुम्भाम्भसा प्रोक्ष्य शिवाज्ञां श्रावयन्तु च । शिवतत्त्वेश ! भो रुद्र ! यावलिकामेदं भुवि ॥ १०२ ॥ निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्ञया । औं रुद्राय नम इति । [क्रियापद एवं पीठे शिवायां च तत्त्वाद्यं स्वस्वमूर्त्तिभिः ॥ १०३ ॥ विन्यस्य शोधयेत् स्पृष्ट्वा शिवाज्ञां श्रावयेदपि ॥ अथ सद्यादिब्रह्मभिरमैश्च स्वस्वदिक्षु सहस्रं तदर्धे शतं वाज्येन जुहु- यात्, व्याहृतिभिश्च । अत्र मञ्जय . - “व्यस्तैर्व्याहृतिभिः पलाशसमिध चौदुम्बराः पैप्पलाः प्रत्येकं जुहुयात् सहस्रमथवा क्षीराज्यमध्वाप्लुताः । एवं तिलैस्तु जुहुयादथ चाष्टमूर्तिमन्त्रैश्च मूर्तिगणनाथदिशाधिपैश्च । बज्रादिशस्त्रमनुभिश्च यथाक्रमेण चाज्येन तत्र जुहुयाद् गुरुरादरेण ॥" चरुं लाजांश्च सक्तूंश्च सिद्धार्थीश्च तिलान् यवान् ॥ १०४ ॥ ब्रीह्रींश्च जुहुयात् स्वस्वदिक्षु मन्त्रैर्यथापुरम् । सर्वद्रव्यैश्च मिलितैः पूर्ण हुत्वा स्वमूलतः ॥ १०५ ॥ उत्त्व देवस्य दक्षिणे श्रवणे गुरुः । ४