पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपता यः प्राच्योदोच्ययोः सान्वब्रह्मस्थानं तु सूत्रयोः । तद् वर्ज्य प्रतिष्ठा शिवादीनां तु मध्यतः ॥ ६ ॥ यदि मोहात् प्रमादाद् वा स्थापयेद् ब्रह्ममध्यगम् | लिङ्गादिकं तदा राज्यकर्तृराजविनाशकृत् ॥ ७ ॥ ब्रह्मस्थानाद् यदैशान्यां कोष्ठं तस्यैशकोणगः | सूत्रसन्धिः प्रतिष्ठायां लिङ्गमध्ये यथा भवेत् ॥ ८ ॥ शिवमध्यं तथा ज्ञात्वा तत्रैव स्थापयेच्छिवम् । सप्तसप्तककोष्ठं तु गर्भागारं विभाजयेत् ॥ ९ ॥ इति । ब्राह्मं तन्मध्यकोष्ठं स्यात् त दैविकं स्याच्च ताह्यवृतौ षोडशकोष्ठकैः ।। १० ।। कोष्ठकम् । मानुषाख्यं ततो बाह्यवृतौ संकृतिकोष्ठकैः । पैशाचं नाम तत् क्षेत्रं प्रतिष्ठा चैषु कथ्यते ॥ ११ ॥ बा शिवप्रतिष्ठा स्याद् दैवे विष्णोर्विधीयते । मानुषे सर्वदेवानां पैशाचे मातृरक्षसाम् ॥ १२ ॥ दैवगन्धर्वयक्षाणां नागादीनां च शरयते । अत्र मयः “गर्भागारे सप्तसप्तांशर्केऽशं मध्ये ब्राह्म दैविकं चाष्टभागम् । मानुष्यं तत् षोडशांशं तु बाह्ये पैश चं स्यात् तच्चतुर्विंशदशम् || शैवं ब्राह्मे वैष्णवं दैविकांशे सब देवा मानुषे स्थापनीयाः । पैशाचांशे मातरश्वासुराद्या रक्षोयक्षाश्चापि गन्धर्वनागाः || "" शिवमध्याद् दक्षिणतो ब्रह्मसूत्रात् तथोत्तरे ॥ १३ ॥ प्राचीनं सूत्रमास्फाल्य कोष्ठानां मध्यतः समम् । तस्मिन् स्वस्वपदे मध्ये विष्ण्वादीन् स्थापयेत् क्रमात् ॥ १४ ॥ प्रत्यङ्मुखांस्तु प्राच्येषु पदेषु स्थापयेत् सुरान् । प्राङ्मुखांश्च प्रतीच्येषु याम्येषूदङ्मुखानपि ॥ १५ ॥ सौम्येषु दक्षिणास्यांश्च विष्ण्वादीन् युक्तितः क्रमात् । शिवमध्याधिकारः । [क्रियाप्रादः. अथ ब्रह्माडीलायां तं स्वादिव्यामधये ॥ 95 11