पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवप्रतिष्ठाधिकारः] भों उत्तराध सप्तचत्वारिंशः पटल | तत्तद्दिक्षु तथा मध्ये युक्तया गर्तानि कल्पयेत् | पूर्वोक्ते शिवमध्ये तु शिलामध्यं यथा तथा || १७ || स्थापयेत् तूर्यथे.१चैवेदघो पैश्च पुष्कलैः । उदङ्खः प्राङ्मुखो वा गुरुर्मूर्तिध: सह ॥ १८ ॥ । नमो व्यापिनीत्युक्त्वा स्थिरै चेत्यचल प्रवे । बिन्द्वन्तं चापि भूबाजं हृल्लेखां चाभिजायया ॥ १९ ॥ तारं ही जमाघारशक्तये च नमोन्तकम् | तथैवानन्तशक्तिं चाप्यभिधाय नमोन्वितम् ॥ २० ॥ संस्थाप्य तु ब्रह्मशिलां स्पृष्ट्वाने नाभिमन्त्रयेत् । त्वमेव परंना शक्तिस्त्वमेवासनधारिका ॥ २१ शिवाज्ञया त्वया देवि! स्थातव्यमिह सर्वदा । शुद्धविद्यान्तमध्यानं सर्व तस्यां विभाव्य तु ॥ २२ ॥ रत्नादिपञ्चवर्गास्तु विन्यसेत् तु यथाक्रमम् । वज्रं चार्कमणि नीलं महानालं च मौक्तिकम् ॥ २३ ॥ पुष्यरागं मरतकं वैद्भूर्य पद्मरागकम् । इन्द्रादीशानपर्यन्तं माणिक्यं मध्यतः स्मृतम् ॥ २४ ॥ ताम्रायोवङ्गरूप्याणि पित्तलं कस्यससके । देवलोहं सुवर्ण च पूर्वाद्यं मध्यमान्तकम् ॥ २५ ॥ वालं शिला तोरिका च माक्षिकं हेममाक्षिकम् । गैरिकं गन्धकं चाअं पारतं नवमं स्मृतम् ॥ २६ ॥ उशीरं च हरिकान्ता रक्तचन्दनकागरू । शारिबोत्पलमालेयरुक्छङ्खकुसुमाइयाः || २७ || ओषधीविन्यसेच्चा वहीनू गोधूमकांस्तिलान । माषमुद्भयवश्यामा शालोंश्चेन्द्रादि विन्यसेत् ॥ २८ ॥ संक्षिप्तासु प्रतिष्ठासु रत्नादीनामसम्भवे !

रन देपञ्चवर्गेभ्यो वज्रं हेम च पारतम् || २९ ॥

  • 'मध्यतोऽष्ट बीजानि' इति समुच कारः ।