पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ ईशानशिवगुरुदेवपद्धतौ हरिकान्तां यवांश्चैव मध्यगर्ते तु विन्यसेत् । रत्नादिवर्गान् सद्यादिकलाभिर्विन्यसेत् पृथक् ॥ ३० ॥ सद्यादिब्रह्मभिर्मध्ये लोकेशाख्याभिरेव वा । मध्यगर्ते हेममयं कूमै वृषभमेव वा ॥ ३१ ॥ संस्थाप्यानन्तमन्त्रेण प्राग्याम्याप्येन्दुदिक्ष्वपि । वृषभं परशुं चाक्षस्रजं शूलं हिरण्मयम् ॥ ३२ ॥ निवृत्त्यादिकलाभिस्तु विन्यस्यालिप्य वै शिलाम् | पायसेनाहतस्वच्छवाससाच्छाद्य वर्मणा ॥ ३३ ॥ गन्धाद्यैस्तु निवेद्यान्तमिष्ट्वा दद्याद् दिशाबलिम् । वसरापूपलाजाम्बुधानाहारिद्रसक्तुभिः ॥ ३४ ॥ क्रमात् सेक्षुरसान्नेन दत्त्वा दिक्पतिनामभिः । देवं रुद्रं पुरस्कृत्य प्रतिगृह्णन्तिवमं बलिम् ॥ ३५ ॥ पैशाचान्तानि भूतानि सर्वाणीह यजामहे । सर्वदिग्वासिभ्यः सर्वभूतेभ्यो नमः । [क्रियापाद: इत्थं प्रतिदिर्श दवा स्नात्वाचम्य प्रसन्नधीः ॥ ३६॥ शिलासूत्रादिदोषघ्नमस्स्रेण जुहुयाच्छतम् । ततो लिङ्गं हृदोत्थाप्य शिरसा प्रदाय च ॥ ३७ ॥ अभिष्टुत्य च तं वाग्भिर्जयशब्दादिमङ्गलैः । गीतवाद्यादिनिर्घोषैर्हेमरत्नाम्बरादिभिः ॥ ३८ ॥ क्षिपद्भिर्यजमाना द्यैर्देवं नीत्वा प्रदक्षिणम् । आचार्यो मूर्त्तिः सार्धं द्वारदेशेऽवतार्य तु ॥ ३९ ॥ भद्रपीठे तु संस्थाप्य स्थिरां भूया इतीरयेन् । अकृतप्रस्तरे द्वारे द्वारशाखादिकस्य तु ॥ ४० ॥ असंस्पर्शेन तल्लिङ्गं पीठं चान्तः प्रवेशयेत् । देहली द्वारशा वा भित्ति चोर्ध्वमुदुम्बरम् ॥ ४१ ॥ लिङ्गं स्पृशति पीठं वा तदा दोषो महानपि । तच्छान्त्यै ब्रह्ममूलाङ्गैहुला दत्त्वा च दक्षिणाम् ॥ ४२ ॥