पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तराधे सप्तचत्वारिंशः पटलः । असंस्पर्शेन शाखादेरन्तलिङ्गं प्रवेशयेत् । अनारब्धा यदा भित्तिर्द्वारिं चाप्यकृतं यदा ॥ ४३ ॥ द्वारोद्देशप्रदेशेन तदा देवं प्रवेशयेत् । ततो ब्रह्मशिलामिष्ट्वा हेतिनाच्छादनाम्बरम् || ४४ ॥ अपनीय शिलाश्वमेलिङ्गं तु प्रविशेद् यदा । अनायासेन तद्योग्ययन्त्रेण प्रगुणीकृतम् ॥ ४५ ॥ तथा मूर्तिघरैः सामाचार्यो लग्न आगते । सुनिश्चितक्षणे तस्मिञ् छिवोऽहामति भावयन् ॥ ४६ ॥ शिवशक्त्योस्तदैकत्वं ध्यायञ्छक्तिं शिलां स्मरन् । इत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्राण्यतीत्य तु ॥ ४७ ॥ सादिकारणत्यागात् स्वमन्त्रं निष्कलान्तगम् । • ध्यायन्नुच्चारयल्लिङ्गं प्रतिष्ठाप्य प्रसन्नधीः ॥ ४८ ॥ सष्टिमार्गेण चेशानपुरुषादिक्रमेण तु । तत्त्वाध्वानं तु शक्त्यादि लिङ्गमूर्ती विभाव्य तु ।। ४९ । शुद्धाभिः सिकताभिस्तु शिलारन्धं प्रपूरयेत् । पुनः संक्षुध संक्षुध रन्धं हेमशलाकया ॥ ५० ॥ लिङ्गशीष पगं नीत्वा पीठं लम्बनरज्जुभिः | सुनिश्चिते तदा लमे शनैर्लिंङ्गेऽवतारयेत् ॥ ५१ ॥ तारं च शक्तिबीजं च क्रियाशक्त्यैपदं ततः । उमायै नम इत्यन्तं मन्त्रं सृष्टिक्रमात् स्मरन् ॥ ५२ ॥ उच्चारयन् पिण्डिकां तु लिङ्गेन सह योजयेत् | स्थाप्यमानं यदा लिङ्गं पोठं वा चालितं भवेत् || ५३ ॥ यां यां दिशं संश्रितं तत् तचाद्दिक्पालमन्त्रतः । शान्ति कुर्यान्नेिजस्थाने स्थिरीकृत्य तु सूत्रकैः ॥ ५४ ॥ द्विशतं त्रिशतं वाज्यं तिलान् हुत्वा तु दक्षिणाम् । दद्यादैन्यादिकानां तु गजं वा स्वर्णनिर्मितम् ॥ ५५ ॥ 1. 'दि' ख. पीठ:. तु T ४४३