पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ चतुर्भुजं प्रदातास्यं जटाजूटेन्दुशेखरम् । अक्षसक्छूलटङ्कांश्च बिभ्राणं च कमण्डलुम् ।। ११० ॥ नागोपवीतकटकरक्तवस्त्राभिभूषितम् । एवं ध्यात्वा तु तलिङ्गादाहृत्यात्महृदम्बुजे ।। १११ ॥ निवेश्यैशे निजस्थाने चण्डबेरं शिवालयम् | आधारशक्तिकमलपीठे संस्थाप्य तदूघृदि॥ ११२ ॥ स्वहृत्स्थं चण्डमानीय नाडीमार्गेण विन्यसेत् । पूजयेच्चासनार्थ्यादिक्रमान्मुख्योपचारकैः ॥ ११३ ॥ तद्यथा चण्डासेनं नमोन्तं स्याबण्डमूर्तिश्च तादृशी । मूलमन्त्रश्च धुन्यादिश्चय्डेश्वरपदं ततः ॥ ११४ ॥ चतुर्थ्यन्तं शिखा फट्कारश्च नमोन्वितः | अङ्गानि चण्डशब्दाद्यं हृदयादी न्यनुक्रमात् ॥ ११५ ।। चतुर्थ्यन्तानि हुंफट् च नमोन्तं तानि पञ्चभिः । असनादिक्रमादिष्वा स्नानाद्यैरुपचारर्कैः ॥ ११६ ॥ निवेषशिवनिर्माल्यैः पुष्पाद्यैस्तं प्रपूजयेत् । अथ लिङ्गं तु संस्नाप्य मन्त्रानुद्दीप्य पूर्ववत् || ११७ ।। संपूज्य गन्धपुष्पाद्यैर्नैवेद्यं च प्रदाय तु । आचार्यो मध्यमे कुण्डे दद्यादाहुतिसप्तकम् ॥ ११८ ॥ तद्यथा स्थिरोऽथ व्यापकस्तद्वदप्रमेयस्ततः परम् । अनादिबुद्धी नित्यश्च ततः स्यादविनश्वरः ॥ ११९ ॥ नित्यतृप्तश्च सप्तान्ते भव स्वाहेति योजिताः । मन्त्राः स्युरेभिर्हत्वाज्यमभिरेव शिवं स्पृशेत् ॥ १२० ॥ सहस्रं वा तदर्थ वा शतं वा जुहुयाद् घृतम् । अघोरास्त्रव्याहृतीभिः पूर्ण च जुहुयात् पुनः ॥ १२१ ॥ कुण्डेभ्यः स्वस्वमन्त्रामीनुद्वास्य वहृदम्बुजे । तथैव शिवकुम्भा लोकेशान् द्वारदेवताः ।। १२२ ॥