पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवप्रतिष्ठाधिकारः] उत्तरार्धे सप्तचत्वारिंशः पटलः । तोरणध्वजकुम्भस्था देवताश्च विसर्जयेत् । निशि भूतबलिं दत्त्वा स्नात्वा मूर्तिधरैः सह ॥ १२३ ॥ शिवं प्रदक्षिणीकृत्य नमस्कृत्य प्रसादयेत् । ततो हिरण्यवसनक्षेत्रभूषणवाहनैः ॥ १२४ ॥ आचार्य तोषयित्वादौ वित्तशाठ्यविवर्जितः । तद्दशांशेन मूर्त्तीशानध्येतॄंश्च तदर्घतः ॥ १२५ ॥ ४४९ जापकांश्च तदर्घेन शुश्रूषूश्च तदर्घतः । ब्राह्मणान् लिङ्गिनो भक्तान् दीनान्धादीस्तथार्थिनः ॥ १२६ ।। अन्यानपि यथाशक्ति तोषयेत् कनकादिभिः | सर्वस्वेनाथवार्धेन तृतीयांशेन वात्मनः || १२७ ॥ प्रतिष्ठां यजमानस्तु कुर्याल्लिङ्गस्य भक्तितः । वित्तशाठ्येन यः कुर्यात् प्रतिष्ठां शक्तिमानपि ॥ १२८ ॥ न स तत्फलमाप्नोति प्रलोभाकान्तमानसः । ततस्तु यजमानाय स्वस्वकर्मफलार्पणम् ॥ १२९ ॥ आचार्याद्यास्तदा कुर्युः सपुष्पसालैः करैः । ततः कर्ता स्वपुत्राद्यैः स्वजनैश्वामिसंवृतः ॥ १३० ।। नित्यपूजादिसिद्ध्यर्थे विभवं तत्र कल्पयेत् । यं एवं कुरुते भक्त्या प्रासादाद्यां स्वशक्तितः ॥ १३१ ॥ लिङ्गप्रतिष्ठां सोऽमुष्मिल्लोके कामानभीप्सितान् । अवाप्य पुत्रमित्रांधरते लोकानमाप्सितान् ॥ १३२ ॥ प्राप्नोति तद्विमानादौ यावन्तः परमाणवः | तावद् वर्षसहस्राणि भोगान् प्राप्य शिवं व्रजेत् ॥ १३३ ॥ इत्थं प्रतिष्ठा कथितेन्दुमौलेज्येष्ठादिलिङ्गाभ्युचिता यथावत् । श्रेष्ठानि तन्त्राणि शिवोदितानि काष्ठान्तमालोच्य बहुप्रकारम् ॥ १३४ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे प्रतिष्ठापटलः सप्तचत्वारिंशः ॥ इति