पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टचत्वारिंशः पटलः । पीठे निवेश्य संपूज्य प्रणम्याभिप्रसाद्यञ्च । अन्नलिङ्गस्थितं देवं मूललिङ्गे नियोजयेत् ॥ २७ ॥ अनलिङ्गे तु चण्डेशमावाह्येष्ट्वा विसृज्य तु । तदन्नलिङ्गं क्षणिकमगाघेऽम्भसि निक्षिपेत् ॥ ३८ ।। दद्यात् गोभ्योऽथवा नित्यमतो नित्योत्सवः स्मृतः । नित्योत्सवाधिकारः । शिवकारः] महोत्सवविधिः शम्भोः कथ्यते येन तर्पिताः ॥ ३९ ॥ गणा: सगणनाथाः स्युः सर्वशान्तिप्रदा नृणाम् । प्रतिसंवत्सरं वापि प्रतिषण्मासमेव वा ॥ ४० ॥ शिवयात्रोत्सवं सम्यक् कुर्यात् सर्वार्थसिद्धये । तत्र यात्रा रथेन स्यादथवा शिबिकादिना ॥ ४१ ॥ चक्रवर्तृपचारेण तल्लक्ष्मातो निगद्यते । शिविकाद्यं रथाद्यं च यानं खट्वादिकं तु यत् ॥ ४२ ॥ शयनासनसंज्ञं स्यात् तल्लक्ष्म पृथगुच्यते । पैठी च शैखरी मौण्डी त्रिविधा शिबिका भवेत् ॥ ४३ ॥ पैठी तु भित्तिकान्ता स्याच्छैखरी शिखरान्विता | मौण्डी स्तम्भोत्तरान्ता तु शालाच्छादनसंयुता ॥ १४ ॥ व्यासायामादिकं त्वासां समानं तच्च कथ्यते ।. त्रिषितस्तिकविस्तारा दीर्घा पञ्चवितस्तिकम् ॥ ४५ ॥ कनिष्ठा मध्यमश्रेष्ठे त्रिषण्मात्राङ्गुलाधिके । अध्यर्षे वायता व्यासात् स्वकर्णायामतोऽपि वा ॥ ४६ ॥ व्यासा भित्तितुङ्गं स्याच्छ्रेष्ठाथो मध्यमाधरौ । मूर्त्यङ्गुलविहीनोचे मुख्यमध्याघमक्रमात् ।। ४७ ॥ सार्वेषुशरवेदांशैरिषिकाविस्तृतिः स्मृता । सा स्वव्यासार्धमुच्चा स्याद् दन्तदार्वादिनिर्मिता ॥ ४८ ॥ कम्पपङ्कजनिम्नानि कुमुदं निम्नमेव च । स् स्यात् क्षुद्रपट्टिका चेत्थमीषिकालङकतिर्भवेत् ।। ४९ ।।