पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

औच्छ्रवाधिकारः] उत्तरार्धे एकोनपञ्चाश: पटलः । पताकां विन्यसेत् तस्मिन् वृषमन्त्रेण तां यजेत् । तस्माद्धस्तद्वये कृत्वा मण्डलं चतुरश्रकम् ॥ १५ ॥ तत्रामि सम्यगाधाय कृत्वा कर्म शिवानले । पलाशसमिधो हुत्वा वृषमन्त्रेण देशिकः ॥ ३६ ॥ तिलानाज्यं चरुं चापि पृथगष्टोत्तरं शतम् । पूर्णा स्विष्टकृतं चापि हुत्वा वहिं विसर्जयेत् ॥ ३७ ॥ सुव्युष्टायां रजन्यां तु कृतनित्यक्रियो गुरुः । पूर्वाहे बाथ मध्याह्ने पूर्वरात्रे सुलमके ॥ ३८ ॥ शुश्रूषुभिर्द्विजैः शुद्धैः सोष्णीषैः सोत्तरीयकैः । ध्वजमुत्य यन्त्रेण वाहयेच्छिरसाथवा ॥ ३९ ॥ शङ्खभेर्यादिनिर्घोषैः कृत्वा ग्रामप्रदक्षिणम् । अन्तः प्रविश्य निर्दिष्टे ध्वजस्थाने तु विन्यसेत् ॥ ४० ॥ पुण्याहं वाचयित्वाथ तज्जलै: क्षालयेद् ध्वजम् । दण्डस्य मूले मध्येऽये वृषषण्मुखमारुतान् ॥ ११ ॥ तत्तन्मन्त्रेण संपूज्य गीतवाद्यादिमङ्गलैः । वृषकुम्भं समानीय ध्वजोपान्ते तु विन्यसेत् ॥ ४२ ॥ कुम्भस्थान् वृषमन्त्रांस्तु ध्वजे वृषहृदि न्यसेत् । मङ्गलादी पारलङ्कृत्य यथाविधि ॥ १३ ॥ रज्ज्वा पत्ताको सङ्गिन्या गायत्र्या वृषमस्य तु | ध्वजमारोपयेत् सम्यग् रज्ज्वा दण्डं च वेष्टयेत् ॥ ४४ ॥ लोकपालास्थितैः कुम्भैः ध्वजमूलेऽभिषेचयेत् । तन्मूले ध्वजमाराध्य निवेद्यान्तं यथाविधि |॥ ४५ ॥ नमस्तेऽस्तु त्रिणेत्रांय ध्वजाधिपतये नमः । नमोऽस्तु नन्दिने तुभ्यमुत्सवस्य प्रसिद्धये ॥ ४६ ॥ अथ ध्वजस्य पुरतः स्थण्डिले शालितण्डुलैः । विहिते विन्यसेद् मेरी वाससा समलङ्कृताम् ॥ ४७॥