पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४ ईशानाशवगुरुदेवपद्धतौ स्तम्भविस्तारविस्तीर्णमुन्नतं चाङ्घ्रिजातिकम् । खण्डोत्तरं स्यादेतस्मात् पादोनं पत्रबन्धकम् ॥ ७६ ॥ स्तम्भव्याससमोत्सेधमुत्सेधार्थेन विस्तृतम् । विपरीतं तु वा नीचं रूपोत्तरमिदं भवेत् ॥ ७७ ॥ उत्तरोत्सेधरामांशभागेनैकेन पट्टिका । तदूर्ध्वंशद्वयेनापि विधेया पद्मपट्टिका ॥ ७८ ॥ उत्तरलक्षणम् | अत ऊर्ध्वं प्रस्तरः स्यात् प्रस्तरे सप्तभागिके । भागाभ्यां तु कपोतं स्यादुपानसमनिर्गमम् ।। ७९ ॥ पट्टिका चापि भांगेन कर्णश्चैकांशतो भवेत् । द्वाभ्यां तु कम्पकं कुर्याच्छिष्टेनाप्यूर्ध्वपट्टिका ॥ ८० ॥ उत्तरोपरि कुर्यात् तु वाजनं तस्य कथ्यते । त्रिचतुष्पञ्चदण्डानामायामस्तस्य सम्मतः ॥ ८१ ॥ स्तम्मविस्तारपादं वा त्रिपादं वोच्छ्रितं भवेत् । वाजनस्योपरिष्टात् तु कुर्याद् भारतुलावलिम् ॥ ८२ ॥ स्तम्भविस्ताररामांशमुच्छ्रितार्धेन विस्तृता । तुलावली स्यात् तासामप्यूर्ध्वे कुर्याज्जयन्तिकाः ॥ ८३ ॥ तुलाविस्तारमानोच्चा यथालाभं सुविस्तृताः । जयन्त्यश्चानुमार्गः स्याद् दण्डार्धबहलश्चितः ॥ ८४ ॥ अध्यर्धसममुच्चः स्यादथ पार्श्वानुगोत्तरम् । वाजनं च तुलाद्वारानुगताः स्युस्ततोऽपि च ॥ ८५ ॥ वंशानुगा जयन्त्यः स्युस्तुलावदनुमार्गकाः । अत्र पराशरः “प्रस्तरः पादविष्कम्भो द्विदण्डार्धे द्वित्रिदण्डेन धवलीकतुलान्तरं स्यात् । द्विदण्डान्तरं जयन्तीनां, दण्डान्तरमनुमार्गाणां, तदुपरि सारफल - काभिर्यथाबलविपुलघनाभिराच्छादयेत् । इष्टकादिभिर्वा फलको वाजव वर्णपट्टिका निवेशयितत्र्या” इति । 'ली' ग. पाठः, २. '६' ख. ग. पाठः ३. 'ण व' क. ख. पाठः