पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपञ्चाशः पटलः । नमस्ते द्वारियुक्ताय भृङ्गीशाय कृशात्मने । दृष्ट्या निहतदैत्याय शाङ्कराय नमो नमः ॥ १०६ ।। नमस्ते द्वारियुक्ताय गजवक्त्राय खात्मने । दृष्टया निहतदैत्याय शाङ्कराय नमो नमः ॥ १०७ ॥ आभ्यां भृङ्गीशविनायकावुपतिष्ठेत । एवं सर्वत्राप्युपस्थानमन्त्रैरुपति- ष्ठेत् । ओं वुं वृषभाय नमः | ओं सुं सुब्रह्मण्याय नमः । भों - नमस्ते द्वारियुक्ताय धर्माय वृषभात्मने । दृष्टया निहतदैत्याय सौरभेयाय ते नमः ॥ १०८ ॥ नमस्ते द्वारियुक्ताय षण्मुखाय शिवात्मने । दृष्ट्या निहतदैत्याय शाङ्कराय नमो नमः ।। १०९ ॥ औं दुं दुर्गायै नमः | ओं धुं चण्डेश्वराय नमः नमस्ते द्वारियुक्तायै दुर्गायै शङ्करालये | दृष्ट्या निहतदैत्यायै तुभ्यं देव्यै नमो नमः ॥ ११० ॥ नमस्ते द्वारियुक्ताय चण्डेशाय महात्मने । दृष्ट्या निहंतदैत्याय शाङ्कराय नमो नमः ॥ १११ ॥ इन्द्राय सुराधिपतये सायुधवाहन परिवाराय रुद्रपार्षदे नमः | तत्पार्ष- देभ्यो नमः | दैत्यदर्पविनाशाय सहस्राक्षाय धीमते । कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो ! ॥ ११२ ॥ ओं नमो भूतेभ्योऽरिष्टकद्भयः सद्भयोऽसद्भ्यः सर्वगणेभ्यो नमोनमः स्वाहा | ओं पूर्वस्यां दिशि शिवस्य भगवतो ये गणा वज्रपाणयः श्वेताः श्वेताक्षाः श्वेतलोहिताः दिव्यान्तरिक्षमौमाश्च पातालनिवासिनश्च तेभ्यस्ताभ्यो नमोनमः