पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ ओं नमो भूतेभ्योऽरिष्टकृद्भय इत्यादिना च । ओं कौबेर्या दिशि शिवस्य भगवतो ये गण! दण्डपाणयः सिताः सिताक्षाः सितलोहिताः दिव्यान्तरिक्षभौमाः पातालानेवासिनश्च तेभ्यस्ताभ्यो नमो नमः स्वाहा ओं ये भूता उत्तरसदः इत्यादिना च । ओं ईशानाय विद्याधिपतये सायुधवानपरिवाराय रुद्रपार्षदे नमः | तत्पार्षदेभ्यो नमः । औ ४७० [क्रियापाद: नमस्त्रिशूलहस्ताय लोकसंरक्षणाय ते । विद्यानां पतये तुभ्यमीशानाय नमो नमः ।। १२० ।। ओं नमो भूतेभ्योऽरिष्टकृय इत्यादिना च । ओ ऐशान्यां दिशि शिवस्य भगवतो ये गणाः शूलपाणय: कपिलाः कपिलाक्षाः कार्पललोहिता दिव्यान्तरिक्ष मौमाः पातालनिवासिनश्च तेभ्यस्ताभ्यो नमो नमः स्वाहा | भों ब्रह्मणे सर्वलोकाधिपतये माधवाहन परिवाराय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः । ओं ब्रह्मणे सर्वलोकानां पतये सृष्टिहेतवे । यज्ञाध्यक्षाय विधये चतुर्वक्राय ते नमः || १२१ ॥ ओं तत्पुरुषाय विद्महे पितामहाय श्रीमहि तन्नो ब्रह्मा प्रचोदयात् । औं नमो भूतेभ्योऽरिष्टक्रुद्भ्य इत्यादिना च | ओं ऊर्ध्वायां दिशि शिवस्य भगवतो ये गणा पद्मपाणयः सूक्ष्मा: सूक्ष्माक्षा: सूक्ष्मलोहिता दिव्यान्तरिक्षमामाः पातालवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा | ओं ये भूता अरिष्टदा इत्यादिना च । ओं अनन्ताय पातालाधिपतये साबुधवाहनपरिवाराय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः । ओं नमः सहस्रशिरसे बिभ्रते शिरसा महीम् । अधोलोकाधिपतये अनन्ताय नमोऽस्तु ते ॥ १२२ ॥