पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवदेवपद्धतौ पितृनाथश्च कीनाश इति याम्यां तु विंशतिः । राक्षसश्चासुरः ऋव्याद् वीरहा निर्ऋतिस्तथा ॥ १४१ ॥ तीक्ष्णनेवो यातुधानो यज्ञहन्ता निशाचरः । महामूर्तिः कैकसेयः क्रूरः क्रूरवपुस्तथा ॥ १४२ ॥ रक्षः कौणपको धूम्रो धूम्राक्षो भीषणस्तथा । विरूपाक्षोऽथ भस्माङ्गो नैर्ऋत्यामथ विंशतिः ॥ १४३ ॥ [किंवापादः वरुणः शबलोऽम्भोधिः प्रचेता निम्नगापतिः । यादोनाथः शशपाणिरानन्दोऽम्बुपतिः शिवः ॥ १४४ ॥ कपर्दी प्राणदः श्वेतः श्यामनेत्रः सनातनः । प्रत्यनिवासो जलदो जीवनो नक्रवाहनः ॥ १४५ ॥ पयोधिनिलयश्चेति कोटीशानां तु विंशतिः । वायुर्गन्ववहः सूक्ष्मः स्पर्शनश्च प्रभञ्जनः ॥ १४६ ॥ प्राणोऽपानस्तथा व्यान उदानश्च समानकः । नागः कुर्मोऽथ कुकरो देवदत्तो धनञ्जयः || १४७ ॥ ध्वजपाणिश्च पवनः श्वसनो मारुतो मरुत् । इति विंशतिकोटीशा वायव्यां तु गणेश्वराः ॥ १४८ ॥ रक्षेशो रयिमान् सोमो माणिभद्रोऽथ गुह्यकः । चेलमॉली कुवेरश्च जम्भल : शिचिकुण्डली ॥ १४९ ।। किनरेशश्चैलिविलिर्धनदश्च धनाधिपः । राजराजस्तथा श्रीदो ज्येष्ठो मालाघरो धनी ॥ १५० ॥ उत्तराशानिवासश्च ततः स्यादेककुण्डलः | एते विंशतिकोटीशाः कौवेरीं दिशमाश्रिताः ॥ १५१ ॥ ईशान ईश्वरः शम्भुः शूलहस्तस्त्रिलोचनः । अनादिनिधनो योगी कपिलः पिङ्गलोचनः ॥ १५२ ॥ रुद्रो रौद्रगणाधीशो विश्वभर्ता दिगम्बरः | नीलग्रीवः कपर्दीशो वृषवाहो वृषध्वजः ॥ १५३ ॥. हरः शर्वो विश्वभुज इत्यैशान्यां तु विंशतिः ।