पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपञ्चाशः पटलः । सृष्टिद् विजयो धाता अघोराघोर एव च । अघोरो लाङ्गली मन्युरङ्गारः शिविभूषणः ॥ १५४ ॥ जीमूतो मूर्तिभृत् कुण्डी मन्त्रीशस्त्रिपुरान्तकः । ऊर्ध्वायां दिशि कोटीशा विंशतिः प्रमथेश्वराः ॥ १५५ ।। बुद्धिः प्रमर्दनः शुद्धः कालरूपोग्रदंष्ट्रणौ । दीर्घबाहुः प्रकामश्च भर्ता हर्ता विचक्षणः || १५६ ॥ कालामी गैरवोऽघोरो नरकः शर्व एव च । नागसंज्ञश्च घोरश्च किम्पुरुईनुजः क्षमी || १५७ ॥ कोटीश्वराणामित्युक्ता विंशतिः स्यादधो दिशि । अत्र मञ्जयम् - - इति । "एषां भृत्यगणाः शतं शतमथो तेषां पुनश्चैकशो • भृत्याः सन्ति सहस्रशोऽप्ययुतस्तेषां च तेषामपि । प्रत्येक परिवारलक्षमुदितं तेषां तथा कोटयः ख्याताः पारिषदाः पृथक्पृथगतो चक्तुं न शक्यास्तु ते ॥ " तारादिभिर्नमोन्तैस्तु पृथगेषां तु नामभिः || १५८ || क्रमात् सगन्धपुष्पाम्बुतत्तद्रा त्रोचितान्नतः । बलिं तु विकिरेद् दिक्षु भूतक्रूरेण वा निशि ॥ १५९ ।। सामान्यार्थ्याम्बुकूर्चेन दद्यादाद्यन्तयोर्बलेः । बलिपीठं ततोऽभ्येत्य भूतिन्द्रादीन् यथाक्रमम् ।। १६० ॥ अभ्यर्च्य विकिरेत् तेभ्यो बलिं नित्योत्सवे यथा । विशेषश्चात्र तु स्नात्वा बलिदानादनन्तरम् ॥ १६१ ॥ आचार्यः सहितः शिष्यैरन्तः प्राग्वत् प्रविश्य तु । यानादेरवरोप्याथ देवं पीठे निधाय तु ।। १६२ ॥ यथापूर्वे समभ्यर्च्य/स्वस्थानस्थं यजेत् पुनः । भत्रोत्सव दिनानां तु विज्ञेया रात्रयः क्रमात् ॥ १६३ ॥ यथा बलिभुजस्तासु पूज्यन्ते साधिपा गणाः । ब्रह्म मभूतेन्द्रगन्धर्वयक्ष राक्षसरात्रयः ।। १६४ ।। ४७५ र