पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे एकत्रिंशः पटलः । शिलामये शिलाभिः स्यादाच्छाद्यं वाजनोपरि ॥ ८६ ॥ वसन्तकोपरिष्टाच्च सञ्छाद्यैवं यथाबलम् । हंसभूतावली वापि निद्रा वा दण्डमुच्छ्रिता ॥ ८७ ॥ त्रिपादं वा वाजनोर्ध्वमुत्तरोपरि वाजनम् । निद्रा च वर्णपट्टी च तुलापादश्च तद्गतः ॥ ८८ ॥ वाजनोर्ध्वे कपोतालिं कुर्यादध्यर्धदण्डतः । द्वित्रैः कपोतनिर्यूहमुत्सेधं मिन्नवेणुवत् ॥ ८९ ॥ तदुपरि कर्णमध्यमपालिके । अर्धत्रिपाददण्डेन कपोतालम्बनं पुनः ॥ ९० ॥ उत्तरादू वाजनस्योर्ध्वं नव चात्र भवन्ति हि । उत्तरात् पोतिकाघस्ताद् गोपानयास्तु लम्बनम् || ९१ ॥ तदन्तरं तुलामानादुच्चता चार्धदण्डतः । त्रिभिर्वाशैस्तु बाहल्यां कम्पा योज्याः समन्तरा ॥ ९२ ।। सौवर्णै राजतैः शौल्यैर्लोष्ठैर्वाच्छाद्य मार्त्तिकैः । अथ गोपाननीप्रार्घाद् दण्डिका नियमो भवेत् ॥ ९३ ॥ दण्डिकाव्यासबाहल्यां स्तम्भव्यासार्धतो भवेत् । चतुरायतसंस्थानमनुमार्गेण बन्धयेत् ॥ ९४ ॥ दण्डिकाद्वारबहलमधोमण्डिः सनालिकम् । दण्डसमं मुष्टिबन्धं तत्पृथग् वाजनोपरि || ९५ ॥ अथ व्यालकसिंहेभभूतनाटकभूषितम् । कपोतोपरि भूतालि: पादात् पादविनिर्मता ॥ ९६ ॥ पादव्याससमा वार्धत्रिपादसहशोच्छ्रया | प्रतिनिवेश्या तत्तुङ्गत्रिचतुर्भागनिर्गमात् ॥ ९७ वाजनं स्यात् समतलमुन्नतं तन्त्र शोभनम् । ऊर्ध्वाधस्तलयोर्भूमेरवधिः प्रतिरेव हि ॥ ९८ ॥ देवद्विजनरेन्द्राणां मकरास्यं प्रतेर्मुखम् । स्वस्तिकं चैव देवानामर्धेन्दुर्वैश्यशूद्रयोः ॥ ९९ ।। यो' ग. पाटः. २. 'वा' ग. पाठ:. ग. ३. '१' ख. पाठः, प्रस्तरयधिकारः] ३१५