पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ 'दर्भैराच्छाद्य सम्पूज्य चूर्ण तत्र तु साधयेत् । स्नात्वा स्वलङ्कृताः कन्या गायन्त्यो मधुरस्वराः ॥ १९३ ॥ तत्र मङ्गलचूर्ण तत् साधयेयुर्हरिद्रया । दध्यक्षताज्यदूर्वाग्रगन्धबीजाङ्कुराणि षट् ॥ १९४ ॥ आरोपयेयुस्ताः कन्या मुसले चाप्युलूखले । ततस्तत्साधितं चूर्णं ह्रैमपात्रादिसंस्थितम् ॥ १९५ ॥ हृदयेनाभिमन्ध्याथ मङ्गलालम्भनानि षट् । दध्यादीन्यथ देवस्य शिरस्यारोप्य मूलतः ॥ १९६ ।। गन्धतैलेन चाभ्यज्य यवमाषादिचूर्णकैः । उद्वर्त्य देवमस्त्रं च परिमृज्याथ वाससा ॥ १९७ ।। तेन मङ्गलचूर्णेन हेमचूर्णयुतेन तु । निर्मृज्य देवमस्त्रं च तच्छेषं भक्तमूर्धसु ॥ १९८ ॥ (कियापादः निक्षिषेन्मङ्गलार्थं तु विश्वकल्मषशोधनम् । संसाप्य चाथ वसनेन च भूषणायै- र्गन्धादिभिश्च कुसुमैः परिभूष्य देवम् । विद्यागमूर्तिमनुभिश्च शिवाङ्गमूलो मूर्ती शिवस्य सकलीकरणं विदध्यात् ।। १९९ ॥ अथात्र तीर्थयात्राथै स्थण्डिलेऽमिं निधाय तु ॥ २०० ॥ आवाह्य तु शिवं हुत्वा मन्त्रसंहितया घृतम् | वक्रेण पकं पालाशीः समिधोऽथ घृतं चरुम् ॥ २०१ ॥ प्रत्येकाष्टशतं हुत्वा कृष्णेनाष्टोत्तरं शतम् । प्रायश्चित्तं तिलाज्याभ्यां मूलात् पूर्णाज्जुहोतु च ॥ २०२ ॥ कनिक्रदत्प्रभृतिभिः षड्भिराज्यं जुहोतु च । स्वस्तिसूक्तेन चैवाज्यं हुत्वा त्वथ जयादिभिः ॥ २३ ॥ ततस्स्विष्टकृतं हुत्वा विसृज्याग्नि हृदम्बुजे । रथादौ देवमारोप्य तीर्थस्नानाय तु ब्रजेत् ॥ २०४ ॥ शङ्कर्यादिनिर्घोषैतनृत्तादिमङ्गलैः । त्रिशूला पुरस्कृत्य स्नानोपकरणैः सह ॥ २०५ ॥