पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सवावनुयाधिकारः] उत्तरार्धे एकोनपञ्चाशः पटलः । ४७९ उच्चावचध्वजच्छत्रचामरव्यजनादिभिः । प्रदीपधूपकलशैर्विघृतैश्चाष्टमङ्गलैः ६: ॥ २०६॥ प्रादक्षिण्येनालयादेर्गच्छदायोजनान्तरम् । विशिष्टसिन्धुनद्यब्धितीर्थाद्यं प्रचुम्बुमत् || २०७ ॥ व्रजेन्मध्यमया गत्या न द्रुतं न विलम्बितम् । तत्र स्वस्तिस्तुतिं चोक्तां स्वस्तिसूक्तं च मङ्गलम् || २०८ ॥ तथा शकुनसूक्तं च चमकं च द्विजोत्तमाः । पठेयुगतवाद्यादौ जयशब्दे च मूर्च्छति ॥ २०९ ॥ संप्राप्य तीर्थतीरं तत् प्रपातोरणमण्डितम् । अलङ्कृतं वितानाद्यैः पीठे देवं निवेशयेत् || २१० ॥ गन्धाद्यैरभिपूज्याथ तीर्थं तदभिमन्त्रयेत् । इमं मे गङ्गे यमुने सरस्वतीत्यादिनापि च ॥ २११ ॥ मन्त्रसंहितया वापि संपूज्य कुसुमादिभिः । ततोऽस्मथ देवं त्रिर्मज्जयित्वा शनैः शनैः ॥ २१२ ॥ सह स्नातो गुरुः शिष्यैस्तटस्थं देवमर्चयेत् । निवेद्यान्तमथाधाय स्थण्डिले शिवपावकम् ॥ २१३ ॥ मूलेनाष्टशतं हुत्वा ब्रह्माङ्गैस्तद्दशांशतः । पक्वं हुत्वाथ पूर्णां च तीर्थान्यावाह्य पूजयेत् ॥ २१४ ॥ इमं मे गङ्गे यमुनेत्याद्ययाज्यं जुहोतु च । जयादिकं स्विष्टकृतं हुत्वा तीर्थे जलेश्वरम् ॥ २१५ ॥ आबाश्येष्वा तु तीर्थानि गङ्गादीन्यपि पूजयेत्। पुण्याहं वाचयित्वाथ तीर्थे देवं प्रवेशयेत् ॥ २१६ ॥ तीर्थे निमज्जयेद् देवं तत्र पीठे निवेश्य तु । गन्धामलक हारिद्र चन्दन । गरुकुङ्कुमैः ॥ २१७ ॥ क्रमादुद्वर्तयेत् तोयपुष्पधूपान्तरैः पृथक् । शङ्खभेर्यादिनिर्घोषॆवैर्देघोषैश्चतुर्दिशम् ॥ ११८ ॥ तत्पीठस्थं तु नीत्वेशं कारयेच्चाघमर्षणम् । हिरण्य शृङ्गमित्यादिसूक्तमान्ताज्जपेदपि ॥ २१९ ॥