पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ स्नान्तिं ये ये तदा तस्मिस्तीर्थे नार्योऽथवा नराः ।. तिर्यञ्चो वापि ते सर्वे मुच्यन्ते सर्वकिषैिः ॥ २२ ॥ विमुच्य कौतुकं त्यक्त्वा देवमुत्तारयेज्जलात् । प्रपायां पीठगं देवमाभूष्य वसनादिभिः ।। २२१ ।। गन्धाद्यैस्तु निवेद्यान्तमिष्ट्वा सङ्गतमङ्गलैः । अभिनन्द्य यथापूर्वं यानमारोपयेच्छनैः ॥ २२२ ॥ गत्वा प्रासादमासाद्य परिणीय प्रदक्षिणम् | मण्डपान्तर्निवेश्येशमिष्ट्राथास्त्रं च पूजयेत् ॥ २२३ ॥ उत्सवप्रतिमां चास्त्रं यथास्थानं निवेश्य तु । मूललिङ्गगतं शम्भुं सविशेषं ततो यजेत् ॥ २२४ दत्त्वा चतुर्विधान्नाद्यं रात्रौ नित्यं समाप्य तु । ध्वजं संपूज्य गन्धाद्यैर्ध्वजं तमवतारयेत् ॥ २२५ ॥ प्रागुक्तवत् समाहूतान् गणान् देवादिकान् क्रमात् । विसर्जयेत् स्वधामानि यथाजोषं भजन्विति ॥ २२६ ॥ ततः पताकावृषभं स्वैर्मन्त्रैरभिपूज्य तु । योजयेन्मूलवृषभे सविशेषं च तं यजेत् || २२७ ॥ महाभूतबलिं दत्त्वा गुरुर्मोनी जनैर्वृतः । निःशब्दं निखिलातोयैर्विना दीपैजेदू बहिः ॥ २२४ ॥ सन्धिसंस्थांस्तु लोकेशान् ब्रह्मादीनभिपूज्य तु । विसर्जयेच्च लोकेशान् ब्रह्मादीन् सन्धिगोचरान् ॥ २२९ ॥ ततः स्नात्वा प्रविश्यान्तः क्षेत्रेशमभिपूजयेत् । उत्सवावभृथाधिकारः । अथ प्रातर्यथापूर्वं नित्यपूजां प्रकल्पयेत् ॥ २३० ॥ ततो विकिरविक्षेपकुम्भास्त्रश्रमपूर्वकम् । नवकादिसहस्रान्तैः कलशैरुपपत्तितः ॥ २३१ ॥ खापयित्वा विशेषेण महापूजां प्रवर्तयेत् । आचार्याय सशिष्याय हिरण्यवसनानि च ॥ २३२ ॥ शिवापा