पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तराध पञ्चाशः पटलः । भूषणादीनि दत्त्वाम्मै दत्त्वा देयानि शक्तितः । लिङ्गिन: परिचारांश्च ब्राह्मणान् प्रतिनस्तथा ॥ २३३ ॥ देवभृत्यांस्तथा दासीस्तथैव नटनर्त्तकान् । भृत्यान् कर्मकरांश्चान्यान् दीनानाथांस्तथार्थिनः || २३४ ॥ अन्नाद्येन हिरण्येन बसनाद्यैश्च तोषयेत् । ध्वजोच्छ्रयात् समारभ्य स्नपनान्तदिनेष्वपि ॥ २३५ ॥ अर्जिभ्यो ब्राह्मणादिभ्यो लिङ्गिभ्योऽप्युपपत्तितः । प्रदद्यादन्नपानादि सुव्यञ्जनरसोत्तरम् || २३६ ॥ एवं यः कारयेच्छम्भोरुत्सवं कुर्वते च ये । ये वा पश्यन्ति ते सर्वे भवन्ति गणनायकाः || २३७ ॥ इत्थं शिवोत्सवविधिः कथितो ध्वजादिः `श्रेष्ठादिभेदविहितः स्नपनावसानः । येनेन्दुमौलिरुपयाति परं प्रसादं शैलाधिराजसुतया सहितो गणेन्द्रैः ॥ २१८ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे महोत्सवविधिपटल एकोनपञ्चाशः ॥ अथ पञ्चाशः पटलः । अथाल्पस्नपनं पूर्व कनिष्ठत्रितयं ततः । मध्यस्नानानि च त्रीणि श्रेष्ठं च अपनत्रयम् ॥ १ ॥ नवभिः पञ्चविंशत्या तदूर्ध्वं सप्तसप्तभिः । एकाशीत्याष्टयुक्तेन शतेन द्विशतेन च ॥ २ ॥ द्विपञ्चाशदुपेतेन कलशानां ततः परम् । त्रिभिः शतैस्तथैवेषुशतैः सप्तशतैरपि ॥ ३ ॥ कृतिसंख्याधिकैश्चाथ सहस्रकलशैरपि । अष्टोत्तरसहस्रैर्वा सहस्रकलशैस्ततः ॥ ४ ॥ विधिवत् पूरितैरुक्तं सपनं तूत्तमोत्तमम् । अष्टोत्तरशतादीनां + + + + परः ॥ ५॥ ४८१ 4 1