पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ ईशान शिव गुरुदेवपद्धतौ मध्ये तु ब्रह्मकलशः शिवेनाधिष्ठितो भवेत् । कलशैर्नवभिः पूर्वमल्पाख्यं स्नपनं स्मृतम् ॥ ६ ॥ अभिकृत्यादिकलशैः कनिष्ठत्रपनत्रयम् । अष्ठोत्तरशताद्यैस्तु + + + + + + + + ॥ ७ ॥ + + + + + + + + + + + स्वपनत्रयम् । स्वपनानां क्रमादेषां मण्डपात् पृथगेव हि || ८ || रामेषुमुनिनन्दैश्च रुद्रातिजगतीकराः । अतिशक्करिकात्यष्टिकरैरतिघृतेर्मितैः ॥ ९ ॥ एकविंशतिहस्तैश्च दशधा स्नानमण्डपाः | सहस्रकलशस्याथ +++++ माधमाः ॥ १० ॥ पञ्चविंशतिहस्तः स्यादेको नत्रिंशता ततः । मध्यमः स्यात् तु हस्तानां त्रयस्त्रिंशद्भिरुत्तमः ॥ ११ ॥ [क्रियापाएं: ● स्वस्वमण्डपहस्तानां संख्ययुकाधिकाः क्रमात् । स्तम्भाः स्युः सुसमाः सर्वेऽप्येकजातितरूद्भवाः ॥ १२ ॥ नवतालोच्छ्रितास्त्वल्पे सपनेऽथाघमादिषु । रुद्रातिजगतीसंख्यैश्चातिशक्करिकामितैः ॥ १३ ।। तालैः स्तम्भा भवन्त्युच्चात् क्रमात् तत्कुट्टिमोपरि । तन्नाहोऽर्काङ्गुलैरल्पे ततो द्वित्रिचतुर्गुणैः ॥ १४ ॥ अङ्गुलैः स्तम्भनाहाः स्युः कनिष्ठादेषु च त्रिषु । लुपावंशानुवंशाद्यमूर्ध्वप्रच्छादनं तथा ॥ १५ ॥ प्रशस्ततरुपूगाद्यैर्नालिकेरदलादिभिः ।। मण्डपानां विधेयं स्याद् यथायुक्त्युपपत्तितः ॥ १६ ॥ सूर्यवस्वृतुमात्रोष्चं श्रेष्ठाद्यं मण्डपस्थलम् । इष्टकादारुमृत्स्नाभिः परितो बद्धकुट्टिमम् ॥ १८ ॥ चतुरश्राश्चतुर्द्वारा मध्यस्तम्भविवर्जिताः । प्रशस्तयोनयः सर्वे कर्तव्या मण्डपाः क्रमात् ॥ १७ ॥