पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'पुण्यविंशतिकलशाधिकारः] तद्यथा उत्तरार्धे पञ्चाशः पटलः । तत्र वास्तुबलिं दत्त्वा तक्षकर्म विसृज्य पुण्याहं वाचयित्वा तु वास्तुहोमं च कारयेत् ॥ १९ ॥ तत्तत्कलश संख्याकान् ब्राह्मणांस्तत्र भोजयेत् । असामर्थ्य तदर्धं वा ततोऽधं वा यथाविधि ॥ २० ॥ दर्भमाला परिवृतं सवितानं सतोरणम् । स्तम्भैः सद्सनच्छन्नैर्मुक्तादामावलम्बितम् ॥ २१ ॥ स्वाले पिततलं रम्यं धूपितं चन्दनोक्षितम् । सद्वारकलशं नानाफलालम्बितनीप्रकम् ॥ २२ ॥ • अलङ्कृत्य यथाशोभं शक्तित: ख़ानमण्डपम् । • सप्तमे पश्चमे वाहि सर्वे सपनवासरात् ॥ २३ ॥ कृत्वाङ्कुरार्पणं सम्यक् पुण्याहं वाचयेत् ततः । उपलिप्यैषु गव्येन प्रोक्ष्य चा (वे ? वो) क्षणादिभिः ॥ २४ ॥ संस्कृत्य धृतिसंस्कारैर्विकिरक्षेपपूर्वकम् । कुम्भास्त्रवर्धनपूजाश्रमणार्चनतः परम् ॥ २५ ॥ अस्त्ररक्षां च कृत्वा तु सूत्रैः पिष्टावरूषितैः । कुर्वीत पदविन्यासं प्रागुदव्यायतैः समम् ॥ २६ ॥ पदानि चाघमादीनि रविमन्वङ्गुलानि च । विकारमानाङ्गुलैब्ध चतुरश्राणि कल्पयेत् ॥ २७ ॥ --- द्विकरे चतुरश्रे तु सूत्रैर्नवपदीकृतैः । तत्र मध्यपदे कृत्वा तेनाल्पपनं स्मृतम् ॥ २८ ॥ अल्पस्नपनपदाधिकारः । BRAMBERGA ४ सप्तसत पुढे क्षेत्रे मध्ये नव पदानि तु | निधाय परितः पङ्किमेकैकां दिक्षु मार्जयेत् ॥ २९ ॥ वीथ्यर्थे तत्र वीथ्योस्तु मध्ये कोष्ठत्रयं त्रयम् । कोणेष्वेकै + + + ++ ++++++ + ॥ ३० ॥ + + + ++* + + + + पद्मं तु सॅलिखेत् । पञ्चधिशेतिकलशाधिकारः ।